________________
१०८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १४६) एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं? एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए णेगम-ववहाराणं भंगोवदंसणया कज्जति ।
(सू० १४७) से किं तं णेगम-ववहाराणं भंगोवदंसणया ? णेगम-ववहाराणं भंगोवदंसणया- तिपएसोगाढे आणुपुव्वी, एगपएसोगाढे अणाणुपुव्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढाओ आणुपुव्वीओ, एगपएसोगाढाओ अणाणुपुव्वीओ, दुपएसोगाढाई अवत्तव्वयाई, अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य, एवं तहा चेव दव्वाणुपुव्विगमेणं छव्वीसं भंगा भाणियव्वा जाव सेतं णेगम- ववहाराणं भंगोवदंसणया ।
(सू० १४८) (१) से किं तं समोयारे ? समोयारे-णेगम-ववहाराणं आणुपुव्वीदव्वाई कहिं समोयरंति ? किं आणुपुव्वीदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति, नो अणाणुपुव्वीदव्वेहिं समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति।। भवन्ति स तावत्स्वेव नभ:प्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव, उत्कृष्टतस्त्वसङ्ख्येयेष्वेव नभ:प्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्ख्येयप्रदेशत्वात्, अलोकाकाशे च द्रव्यावगाहाभावादित्यलं प्रसङ्गेन ।
प्रकृतमुच्यते । तत्रानुपूर्वीप्रतिपक्षत्वादनानुपूर्व्यादिस्वरूपमाह- एगपएसोगाढे अणाणुपुव्वि त्ति, एकस्मिन्नभ:प्रदेशे अवगाढ: स्थित एकप्रदेशावगाढ: परमाणुसङ्घात: स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्य: । दुपएसोगाढे अवत्तव्वए त्ति प्रदेशद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम्, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूर्त्यां व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो यावद् द्रव्यप्रमाणद्वारे नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइमित्यादि प्रश्न: । अत्रोत्तरम्- नो संखेज्जाइमित्यादि, त्र्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, त्र्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहूनामपि क्षेत्रावगाहमपेक्ष्य ५९तुल्यप्रदेशावगाढानामेकत्वात् क्षेत्रानुपूर्व्याम
५९. तुल्यप्रदेशावगाढानामेकत्वादिति। नन्वत्र तुल्यत्वं सङ्ख्ययैव ग्रहीतव्यं यद्वाऽवगाहनाभूताकाशप्रदेशैस्तद्ग्रहीतव्यमिति चेत् ? अवगाहनाभूताकाशप्रदशैस्तद्ग्रहीतव्यमिति गृहाण । यद्यपि सङ्ख्ययैव तद्ग्रहणेऽप्यानुपूर्वीद्रव्याणामसङ्ख्येयत्वं तूपपद्येतैव तद्यथा-समस्तलोके यत्र कुत्रचिदष्यवस्थितानामाकाशप्रदेशत्रयावगाढानां स्कन्धानां समूह एकमानुपूर्वीद्रव्यम्, एवमाकाशप्रदेशचतुष्टयावगाढानां स्कन्धानां समूहोऽन्यदानुपूर्वीद्रव्यम्, एवं क्रमेणासङ्ख्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org