________________
श्रीअनुयोगद्वारसूत्रम् [सू०१४४,१४५]
१०७ आणुपुव्वीओ जाव संखेज्जपएसोगाढा आणुपुव्वीओ, असंखिज्जपएसोगाढा आणुपुव्वीओ, एगपएसोगाढा अणाणुपुव्वीओ, दुपएसोगाढा अवत्तव्वगाइं । सेतं णेगमववहाराणं अट्ठपयपरूवणया।
(सू० १४४) एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं? एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए णेगम-ववहाराणं भंगसमुक्कित्तणया कीरति ।
(सू० १४५) से किं तं णेगम-ववहाराणं भंगसमुक्कित्तणया ? णेगम-ववहाराणं भंगसमुक्कित्तणया-अत्थि आणुपुव्वी १, अत्थि अणाणुपुव्वी २, अत्थि अवत्तव्वए ३ । एवं दव्वाणुपुव्विगमेणं खेत्ताणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा, जाव सेतं णेगम-ववहाराणं भंगसमुक्कित्तणया ।
यद्येवं तर्हि मुख्यं क्षेत्र परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते ? उच्यतेसंतपयपरूवणयेत्यादिवक्ष्यमाणबहतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन ५७सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वात्, एवमन्यदपि कारणमभ्यूह्यमित्यलं विस्तरेण । एवं चतुष्प्रदेशावगाढादिष्वपि भावना कार्या, यावदसङ्ख्यातप्रदेशावगाढा(ढ?) आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यः, यत: पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति- परमाणुराकाशस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोऽसङ्ख्यातप्रदेशिकान्तास्तु स्कन्धा: प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, ५८उत्कृष्टतस्तु यत्र स्कन्धे यावन्त: परमाणवो
५७. सदावस्थितमानत्वादचलत्वाच्चेति । ननु जीवस्यापि न सदावस्थितमानत्वमचलत्वं वा, तत्कथं तदवगाढत्वेन क्षेत्रानुपूर्वी नोक्तेति चेत् ? जीवस्य जघन्यतोऽप्यङ्गुलस्याऽसङ्ख्येयभागप्रमाणाऽसङ्ख्येयाकाशप्रदेशावगाहना तु यतो भवत्येवातोऽनानुपूर्व्यक्तव्यकत्वासम्भवात् सा नोक्तेति गृहाण।
५८. उत्कृष्टतस्त्वित्यादि। उत्कृष्टतोऽसङ्ख्येयनभःप्रदेशरूपा एषाऽवगाहना द्विविधा ज्ञेया । स्वस्थानतः समुद्घाततश्च । तत्र स्वस्थानतः साऽमुलासङ्ख्येयभागमात्रप्रमाणा भवति, ततश्च लोकस्यासङ्ख्येयभागमात्रैव सा ज्ञेया। समुद्घाततस्तु सा लोकस्यासङ्ख्येयभागप्रमाणा, सङ्ख्येयभागप्रमाणा, सङ्ख्येयबहुभागप्रमाणा, असङ्ख्येयबहुभागप्रमाणा (देशोनलोकप्रमाणा), सम्पूर्णलोकप्रमाणा वापि सम्भवति, इमाश्च सर्वा अप्यवगाहनाः कथं सम्भवन्ति तत्तु पूर्व (टिप्पण क्र.३४) विचारितमेव | अचित्तमहास्कन्धानां तु समुद्घातः संभवत्येव, तद्भिन्नानां स्कन्धानां तत्सम्भवोऽस्ति न वेत्यत्र नास्माकं कोऽपि निर्णयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org