________________
१०६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ओवणिहिया य अणोवणिहिया य ।
(सू० १४०) तत्थ णं जा सा ओवणिहिया सा ठप्पा ।
(सू० १४१) तत्थ णं जा सा अणोवणिहिया सा दुविहा पन्नत्ता । तंजहा- णेगमववहाराणं १, संगहस्स य २ ।
(सू० १४२) से किं तं गम-ववहाराणं अणोवणिहिया खेत्ताणुपुव्वी ? णेगमववहाराणं अणोवणिहिया खेत्ताणुपुव्वी पंचविहा पण्णत्ता । तंजहा-अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५।।
(सू० १४३) से किं तं णेगम-ववहाराणं अट्ठपयपरूवणया ? णेगम-ववहाराणं अट्ठपयपरूवणया- तिपएसोगाढे आणुपुव्वी जाव दसपएसोगाढे आणुपुव्वी जाव संखिज्जपएसोगाढे आणुपुव्वी, असंखेज्जपएसोगाढे आणुपुव्वी, एगपएसोगाढे अणाणुपुत्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढा आणुपुव्वीओ जाव दसपएसोगाढा त्ति । इह क्षेत्रविषया आनुपूर्वी क्षेत्रानुपूर्वी, का पुनरियमित्यत्र निर्वचनम्- क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा-औपनिधिकी पूर्वोक्तशब्दार्था अनौपनिधिकी च । तत्र याऽसावौपनिधिकी सा स्थाप्या, अल्पवक्तव्यत्वादुपरि वक्ष्यत इत्यर्थः, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणाद् द्विविधा प्रज्ञप्ता, तद्यथा-नैगम-व्यवहारयोः सङ्ग्रहस्य च सम्मतेति शेषः ।
तत्र नैगम-व्यवहारसंमतां तावदर्शयितुमाह- से किं तमित्यादि । इह व्याख्या यथा द्रव्यानुपूर्त्यां तथैव कर्तव्या, विशेषं तु वक्ष्यामः । तत्र तिपएसोगाढे आणुपुव्वि त्ति, त्रिषु नभ:प्रदेशेष्ववगाढः स्थित: त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी । ननु यदि ५५द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वम् ? सत्यम्, किन्तु ५६क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वम्, तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः।
५५. द्रव्यस्कन्ध एवानुपूर्वीति । यथा पुद्गलप्रदेशाः पूरणगलनस्वभावत्वान् मिथः सम्मील्य विविधान् स्कन्धान् विरचयन्ति न तथाऽऽकाशप्रदेशाः, पूरणगलनस्वभावाभावेन मिथः सम्मीलनासम्भवात्।
५६. क्षेत्रप्रदेशत्रयवगाहेत्यादि । अत एव द्रव्यानुपूर्वीमपेक्ष्यानुपूर्वीभूता अपि त्र्यणुकादयो ये स्कन्धा एकाकाशप्रदेशावगाहास्ते क्षेत्रानुपूर्वीमपेक्ष्यानानुपूर्वीभूता एव, एवं ये स्कन्धा आकाशप्रदेशद्वयावगाहास्तेऽवक्तव्यका एवेति द्रव्यानुपूर्वीतो विशेषः प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org