________________
श्रीअनुयोगद्वारसूत्रम् [सू०१३५-१३९]
१०५ (सू० १३५) अहवा ओवणिहिया दव्वाणुपुत्वी तिविहा पन्नत्ता। तं जहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।
(सू० १३६) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- परमाणुपोग्गले दुपएसिए तिपएसिए जाव दसपएसिए जाव संखिज्जपएसिए असंखिज्जपएसिए अणंतपएसिए । सेतं पुव्वाणुपुव्वी।
(सू० १३७) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- अणंतपएसिए असंखिज्जपएसिए संखिज्जपएसिए जाव दसपएसिए जाव तिपएसिए दुपएसिए परमाणुपोग्गले । सेतं पच्छाणुपुव्वी।
(सू० १३८) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगाइयाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । सेतं
ओवणिहिया दव्वाणुपुव्वी । सेतं जाणगवइरित्ता दव्वाणुपुव्वी। सेतं नोआगमओ दव्वाणुपुव्वी । सेतं दव्वाणुपुव्वी ।
(सू० १३९) से किं तं खेत्ताणुपुव्वी ? खेत्ताणुपुव्वी दुविहा पण्णत्ता । तंजहा
तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह- अहवेत्यादि । अत्र चौपनिधिक्या द्रव्यानुपूर्व्या ज्ञातमपि त्रैविध्यं यत् पुनरप्युपन्यस्तं तत् प्रमाणान्तरभणनप्रस्तावादेवेति मन्तव्यम्, अणंतगच्छगताए त्ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां गच्छ: समुदायोऽनन्तगच्छ:, तं गता अनन्तगच्छगता, तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति । शेषभावना च सर्वा पूर्वोक्तानुसारतः स्वयमप्यवसेयेति ।
___ आह- ननु यथैक: पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदाहृत: एवं शेषा अपि प्रत्येकं किमिति नोदाह्रियन्ते ? अत्रोच्यते-द्रव्याणां क्रम:परिपाट्यादिलक्षण: पूर्वानुपूर्व्यादिविचार इह प्रक्रान्त:, स च द्रव्यबाहुल्ये सति संभवति, धर्मा-ऽधर्मा-ऽऽकाशास्तिकायेषु च पुद्गलास्तिकायवन्नास्ति प्रत्येकं द्रव्यबाहुल्यम् एकैकद्रव्यत्वात्तेषाम्, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यम्, केवलं परमाणु-द्विप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणां पूर्वानुपूर्व्यादित्वनिबन्धनः प्रथमपाश्चात्त्यादिभावो नास्ति प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात् परमाणु-द्विप्रदेशिकादिद्रव्याणां तु विषमप्रदेशत्वादिति, अद्धासमयस्यैकत्वादेव तदसम्भव इत्यलमतिचर्चितेन । तदेवं समर्थिता
औपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च समर्थिता प्रागुद्दिष्टा द्विप्रकाराऽपि द्रव्यानुपूर्वी, तत: सेत्तमित्यादीनि निगमनानि, द्रव्यानुपूर्वी समाप्ता।
उक्ता द्रव्यानुपूर्वी, अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिख्यासुराह- से किं तं खेत्ताणुपुब्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org