________________
१०४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्यात्,, उक्तं च
जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ कायव्वो । सो होइ समयभेदो वजेयव्वो पयत्तेणं ।।१।। ( )
निक्षिप्तस्य चाङ्कस्य यथासम्भवं पुरओ त्ति अग्रत: उपरितनाङ्कस्तुल्यं सदृशं यथा भवत्येवं न्यस्येत्, उपरितनाङ्कसदृशानेवाङ्कान्निक्षिपेदित्यर्थः, पुव्वक्कमो सेसे त्ति स्थापितशेषानकान्निक्षिप्ताङ्कस्य यथासम्भवं पृष्ठत: पूर्वक्रमेण स्थापयेदित्यर्थः । य: सङ्ख्यया लघुरेककादिः स प्रथम स्थाप्यते, यस्तु तया महान् द्विकादिः स पश्चादिति पूर्वक्रम: पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना। भावार्थस्तु दिग्मात्रदर्शनार्थं सुखाधिगमाय च त्रीणि पदान्याश्रित्य तावद् दर्श्यते, तेषां च परस्पराभ्यासे षड् भङ्गा भवन्ति, ते चैवमानीयन्ते, पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा १२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः स तदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते उवरिमतुल्लमित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्ग: २१३, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः परं नासौ तदधस्तानिक्षिप्यते, अग्रत: सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, स तदधस्तानिक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिको क्रमेण स्थाप्येते, पुव्वक्कमो सेसे त्ति वचनात्, ततस्तृतीयोऽयं भङ्ग: १३२, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विको न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एकक: स्थाप्यते, अग्रतस्तु द्विकः, उवरिमतुल्लमित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्ग: ३१२, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चामीषामियं स्थापना- १ २ ३| अत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादन्त्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव २ १ ३| चत्वारोऽनानुपूर्वीत्वेन मन्तव्या:, एवमनयोद्दिष्ट्या चतुरादिपदसम्भविनोऽपि भङ्गा | र भावनीयाः । भूयांसश्चहोत्तराध्ययनटीकादिनिर्दिष्टा: प्रस्तुतभङ्गानयनोपाया: २ १ सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तदर्थिना तु तत एवावधारणीयाः। ३ २ १ तदिदमत्र तात्पर्यम्-पूर्वानुपूर्ध्या तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वम्, पश्चानुपूर्त्यां त्वद्धासमयस्य प्रथमत्वम्, पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्वम्, अनानुपूर्त्यां त्वनियमेन क्वचिद्भङ्गके कस्यचित् प्रथमादित्वमित्यलं विस्तरेण । सेतमित्यादि निगमनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org