________________
श्री अनुयोगद्वारसूत्रम् [सू०१३४]
१०३
(सू० १३४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी ।
अथानानुपूर्वी निरूपयति-से किं तमित्यादि, अत्र निर्वचनम् - अणाणुपुव्वी एताए चेवेत्यादि, न विद्यते आनुपूर्वी यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी विवक्षितपदानामनन्तरोक्तक्रमद्वयमुल्लच्चय परस्परासदृशैः सम्भवद्भिर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः । का पुनरियमित्याहअन्नमन्नब्भासो त्ति अन्योन्यं परस्परमभ्यासो गुणनमन्योन्याभ्यासः दुरूवोणो त्तिद्विरूपन्यूनः आद्यन्तरूपरहित: अनानुपूर्वीति सण्टङ्कः । कस्यां विषये योऽसावभ्यास इत्याह- श्रेण्यां पंक्तौ, कस्यां पुनः श्रेणावित्याह - एताए चेव त्ति, अस्यामेव अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्याम्, कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी, एकैक उत्तर: प्रवर्द्धमानो यस्यां सा तथोक्ता, तस्यां पुनः कथंभूतायामित्याह - छगच्छगताए त्ति, षण्णां गच्छ समुदाय: षड्गच्छस्तं गता प्राप्ता षड्गच्छगता, तस्याम्, धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः । आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्काया धर्मास्तिकायादिवस्तुषट्कविषयायाः पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्या भवति सा आद्यन्तभङ्गद्वयरहिता अनानुपूर्वीति भावार्थ: ।
तत्रोर्ध्वाधः किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः । तत्र चैककेन द्विके गुणिते जात द्वावेव, ताभ्यां त्रिको गुणितो जाताः षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतम्, षट्कस्य च तद्गुणने जातानि विंशत्यधिकानि सप्त भङ्गशतानि, स्थापनाआगतम् ७२०, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी, अन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टा- | ६ दशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थं
करणगाथा
पुव्वाणुपुव्विहिट्ठा समयाभेण कुरु जहाजेट्ठे ।
उवरिमतुलं पुरओ नसेज्ज पुव्वक्कमो सेसे || ११|| ( विशेषावश्यकभा० ९४३ ) इति ।
व्याख्या- इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या: हेट्ठ त्ति अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः कुरु त्ति स्थापय, एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठम्, यो यस्यादौ स तस्य ज्येष्ठो यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एवं च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याहसमयाभेदेनेति, समय: संकेत: प्रस्तुतभङ्गकरचनव्यवस्था, तस्य अभेदः अनतिक्रमः, तस्य च भेदस्तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org