________________
१०२
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
पच्छाव |
घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाज्जीवस्यास्तित्वमवसातव्यम्, न च गुणिनमन्तरेण गुणसत्ता युक्ता अतिप्रसङ्गात् न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्तं चिद्रूपं सदैवेन्द्रियगोचरातीतत्वादिधर्म्मोपेतम्, अतः तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव, न तु देहो विपरीतत्वात्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तर्ह्यनवस्था रूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति । ५३ पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति । कालोऽप्यस्ति, बकुला - ऽशोक - चम्पकादिषु पुष्पफलप्रदानस्यानियमेनादर्शनात्, यस्तु तत्र नियामक: स कालः इति, स्वभावादेव तु तद्भवने ५४ नित्यं सत्त्वमसत्त्वं वा (प्रमाणवा० ३।३५) इत्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थदुरवगमताभयादिति । आह-धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायादीनां तु तदनन्तरं क्रमेणेत्थं निर्देश: कुतः सिद्धो येनात्र पूर्वानुपूर्वीरूपता स्यादिति ? अत्रोच्यते- आगमे इत्थमेव पठितत्वात् । तत्रापि कथमित्थमेव पाठ इति चेत्, उच्यते, धर्मास्तिकाय इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारत्वादाकाशास्तिकायस्य, ततः स्वाभाविकामूर्तत्वसाम्याज्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवपर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति ।
अथ पश्चानुपूर्वी निरूपयितुमाह से किं तं पच्छाणुपुव्वीत्यादि, पाश्चात्त्यादारभ्य प्रतिलोमं व्यत्ययेनैवानुपूर्वी परिपाटिः क्रियते यस्यां सा पश्चानुपूर्वी, अत्रोदाहरणमुत्क्रमेण इदमेवाऽऽहअद्धासमयेत्यादि गतार्थमेव ।
सिद्धेऽधर्मास्तिकायेऽवकाशदायकत्वं वक्तुं न पार्यतेऽतस्तदर्थं स्वतन्त्रमाकाशाख्यं द्रव्यमङ्गीकर्तव्यमेव। एतत्तु सर्वमप्यनुमानेन धर्मादिसाधनार्थमुक्तमिति मन्तव्यम्, अन्यथाऽमूर्तान्यपि धर्मादिद्रव्याणि येषां प्रत्यक्षाणि तेषां सर्वज्ञानामुक्तिरूप आगम एवास्माकं धर्मादिसिद्धौ बलवत्प्रमाणम् ।
५३. पुद्गलास्तिकायस्य त्विति... पुद्गलास्तिकायो द्विविधः परमाण्वादिरूपोऽतीन्द्रियः, घटादिरूपश्वेन्द्रियगम्यः। तत्र प्रथमेऽतीन्द्रिये प्रमाणं दर्शयितुं घटादिकार्यान्यथानुपपत्तेरित्युक्तम्, तद्भिन्ने तु प्रत्यक्षत्वादिति ।
५४. “नित्यं सत्त्वं.....” नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः।। इति हि तन्यायः प्रमाणवार्तिकस्य पदार्थानुमानपरिच्छेदे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org