________________
श्री अनुयोगद्वारसूत्रम् [सू०१३३]
सर्वसूक्ष्मः ५°पूर्वाऽपरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थ:, अत एवात्र अस्तिकायत्वाभावः बहुप्रदेशत्व एव तद्भावात्, अत्र त्वतीताऽनागतयोर्विनष्टाऽनुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावात् । नन्वेवमावलिकादिकालाभाव:, समयबहुत्व एव तदुपपत्तेरिति चेत्, भवतु तर्हि, को निवारयिता ? समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य (अनुयोगद्वारे सू० ३६५, आवश्यकनि० ६६३) इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमात्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसङ्घात इवावलिकादिषु समयसङ्घातः कश्चिदवस्थित: समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्च्चयेति ।
५९ अत्र च जीव - पुद्गलानां गत्यन्यथाऽनुपपत्तेर्धर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यम्, न च वक्तव्यम् - तद्गति- स्थिती च भविष्यतो धर्माधर्मास्तिकायौ च न भविष्यत इति प्रतिबन्धाभावादनैकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात् । यदि तु अलोकेऽपि तद्गति - स्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीव - पुद्गलानां तत्र प्रवेशादेकद्वित्रादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यात्, न चैतद् दृष्टमिष्टं वेत्याद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदार्थानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयम् । न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यति इति वक्तव्यं ५२ तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गादिति ।
५०. पूर्वापरकोटिविप्रमुक्त इति । अविभाज्य इत्यर्थः । यथावलिकाया अयं पूर्वार्द्धाऽयं तु पश्चार्द्ध इत्येवं विभागः कर्तुं शक्यो, न तथा समयस्य ।
५१. अत्र च जीवपुद्गलानामिति । 'लोको धर्मास्तिकायवान्, जीवगतिमत्त्वात्, यन्नैवं तन्नैवं यथाऽलोकः' इत्यादयोऽनुमानप्रयोगा अत्र ज्ञेयाः । अस्तु जीवगतिमत्त्वं माऽस्तु धर्मास्तिकायः, को दोष इत्यादिस्वरूपमप्रयोजकत्वमुद्भावयति कश्चिन्न च वक्तव्यमित्यादिना । अलोकेऽपि जीवगतिमत्त्वप्रसङ्ग एवाप्रयोजकत्वशङ्कानिर्मूलनक्षमोऽनुकूलस्तर्कोऽत्र विजयत इत्याशयेनाह तावन्तरेणापीत्यादि । नन्वलोकस्यापि जीवगतिमत्त्वे काऽऽपत्तिरिति शङ्कां मनसिकृत्याह यदि त्वित्यादि ।
१०१
५२. तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात् । यथा नैयायिकैरवयवधाराया अन्ते सिद्धे निरवयवे परमाणावेव व्यावर्तकधाराया अन्ते सेत्स्यमानं स्वतो व्यावर्तकत्वं न स्वीकृतमपि तु तदर्थं परमाणुभिन्नः स्वतन्त्र एव विशेषाख्यः पदार्थः स्वीकृतः, यथा वा शब्दाश्रयत्वेन सिद्ध आकाश एव न परापरत्वधीहेतुत्वमङ्गीकृतमपि तु तदर्थं स्वतन्त्रं कालद्रव्यमङ्गीकृतं तथैवात्रापि मन्तव्यम्, ततश्च यतो गतिसाधकत्वेन सिद्धे धर्मास्तिकाये स्थितिसाधकत्वेन वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org