________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० १३३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- अद्धासमए ६, पोग्गलत्थिकाए जीवत्थिकाए ४, आगासत्थिकाए ३, अधम्मत्थिकाए २, धम्मत्थिकाए १ । सेतं प्रयोजनमस्या इत्यौपनिधिकी द्रव्यविषयाऽऽनुपूर्वी परिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्म्मास्तिकायादिद्रव्यविशेषसमुदाये य: पूर्व : प्रथमस्तस्मादारभ्यानुपूर्वी अनुक्रमः परिपाटि : निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी । तत्रैव यः पाश्चात्त्यः चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी परिपाटिः विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी । न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः ।
१००
५,
तत्राद्यभेदं तावन्निरूपयितुं प्रश्नमाह से किं तमित्यादि । इह च द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह - धम्मत्थिकाए इत्यादि, तत्र जीव- पुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभावधरणाद् धर्म:, अस्तयः प्रदेशा:, तेषां कायः सङ्घातोऽस्तिकायः, धर्म्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्ख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेषः इत्यर्थः । जीव- पुद्गलानामेव तथैव ४८ गतिपरिणतानां तत्स्वभावाधरणादधर्मः, जीव- पुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः । शेषं धर्मास्तिकायवत् सर्वम् । सर्वभावाकाशनादाकाशम्, आ मर्यादया तत्संयोगेऽपि स्वकीयस्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते स्वभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा आ अभिविधिना ४९ सर्वात्मना तत्संयोगानुभवनलक्षणेन काशन्ते तथैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः । तच्च तदस्तिकायश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः । जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः, ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः । पूरण- गलनधर्माण: पुद्रला: परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ता:, ते हि कुतश्चिद् द्रव्याद् गलन्ति वियुज्यन्ते, किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भाव: । ते च तेऽस्तिकायाश्चेति समासः । अद्धाशब्दः कालवचनः समयः सङ्केतादिवाचकोऽप्यस्ति, ततो विशेष्यते-अद्धारूपः समयोऽद्धासमय:, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः
"
४८. गतिपरिणतानां तत्स्वभावाधारणादधर्म इति । गतिपरिणामस्वभावाधारणत्वं त्वधर्मस्य व्युत्पत्तिनिमित्तं ज्ञेयं, न प्रवृत्तिनिमित्तं, आकाशादेरपि गतिपरिणामस्वभावाधारणत्वादधर्मत्वापत्तेः। तथा तस्यैव प्रवृत्तिनिमित्तत्वेऽधर्मस्य प्रवृत्तिनिमित्तत्वेनोच्यमानः स्थितिपरिणामो गतिपरिणामाभावात्मक एव स्यान्न तु स्वतन्त्रः कश्चित्परिणामात्मकः । ततश्चाधर्मास्तिकायस्याभाव एव स्याद्, अभावे उपष्टम्भकस्यानावश्यकत्वात् ।
४९. सर्वात्मनेति । न तु कञ्चुकसर्पयोरिवोपरितनभागमात्रेणैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org