________________
श्रीअनुयोगद्वारसूत्रम् [सू०१३०-१३२] भागेसु होज्जा, णो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा। एवं दोण्णि वि।
(सू० १३०) संगहस्स आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? नियमा सादिपारिणामिए भावे होज्जा । एवं दोण्णि वि । अप्पाबहुं नत्थि। सेतं अणुगमे । सेतं संगहस्स अणोवणिहिया दव्वाणुपुव्वी । सेतं अणोवणिहिया दव्वाणुपुव्वी ।
(सू० १३१) से किं तं ओवणिहिया दव्वाणुपुव्वी ? ओवणिहिया दव्वाणुपुव्वी तिविहा पण्णत्ता । तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ य ।
(सू० १३२) से किंतं पुव्वाणुपुव्वी? पुव्वाणुपुव्वी- धम्मत्थिकाए १, अधम्मत्थिकाए २, आगासत्थिकाए ३, जीवत्थिकाए ४, पोग्गलत्थिकाए ५, अद्धासमए ६ । सेतं पुव्वाणुपुव्वी।
__ भागद्वारे नियमा तिभागे होज त्ति त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तत इति भावः। यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमते व्यवहारसंवृतिमात्रेणैव सत्त्वादिति । भावद्वारे ४७सादिपारिणामिए भावे होज त्ति, यथा आनुपूर्व्यादिद्रव्याणामेतद्भाववतित्वं पूर्व भावितं तथाऽत्रापि भावनीयम्, तेषां यथास्वं सामान्यादव्यतिरिक्तत्वादिति । अल्पबहुत्वद्वारासम्भवस्तूक्त एवेति समर्थितोऽनुगमः, तत्समर्थने च समर्थिता संग्रहमतेनानौपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम्, अत: सेतमित्यादि निगमनत्रयम् । ____गताऽनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकीं तां व्याचिख्यासुराह - से किं तमित्यादि । अथ केयं प्राग्निर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः । अत्र निर्वचनम्
औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिर्निक्षेपो विरचनं तदपेक्षया चानुपूर्वीद्रव्यस्यार्धरूपत्वनियमात् त्रिभागे भवेदित्युत्तरमनुपपन्नमेव स्यात् । अत एव वृत्तिकारैरपि त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तते' इति कथनद्वारा ऽशेषद्रव्यापेक्षयैव सूत्रसङ्गतिर्दर्शिता । ततश्च दर्शितानुपपत्तिवारणार्थं यथाऽत्राशेषद्रव्यापेक्षयैव विचारणमावश्यकं तथैव पूर्वं (सू० ११२) नैगमव्यवहारनयसंलग्नसूत्रेऽपि भागद्वारेऽशेषद्रव्यापेक्षयैव विचारणस्यावश्यकत्वात्तत्राप्यकारलोपो जेय एव।
४७. 'सादिपारिणामिए भावे' त्ति । ननु सङ्ग्रहनयमतेन मुख्यस्यैकत्वस्यैव कक्षीकृतत्वादनादिपारिणामिकभावे वर्तते इति वक्तुमुचितम्, आनुपूर्वीद्रव्यत्वेनानुपूर्वीद्रव्यस्यैकस्य सर्वदा भावादिति चेत् ? सत्यं, किन्तु गुणभूतानि बहूनि द्रव्याण्याश्रित्य सादिपारिणामिकत्वास्याप्यविरुद्धत्वात् तदत्रोक्तमिति मन्तव्यम् । सूत्रकृत ईदृगभिप्रायो मन्तव्य एव, अन्यथा द्रव्यप्रमाणद्वारेऽपि 'नियमा एगो रासी' इत्यत्र ‘राशि'व्यपदेशोऽयुक्तः स्यात्, एकस्य राशित्वासम्भवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org