________________
१८४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २६२) (१) से किं तं नवनामे ? नवनामे णव कवरसा पण्णत्ता । तंजहा -
वीरो १ सिंगारो २ अब्भुओ य ३ रोद्दो य ४ होइ बोधव्वो ।
वेलणओ ५ बीभच्छो ६ हासो ७ कलुणो ८ पसंतो य ९ ॥६३॥ (२) तत्थ परिच्चायम्मि य १ तव-चरणे २ सत्तुजणविणासे य ३ ।
अणणुसय-धिति-परक्कमचिण्हो वीरो रसो होइ ॥६४॥ वीरो रसो जहा
सो णाम महावीरो जो रज्ज पयहिऊण पव्वइओ।
काम-क्कोहमहासत्तुपक्खनिग्घायणं कुणइ ॥६५॥ सङ्ग्रहादष्टनामेदमुच्यते इति भावार्थ: (ग्रन्थाग्रं० ३०००) । सेतं अट्ठनामे त्ति निगमनम् ।
अथ नवनाम निर्दिशन्नाह - से किं तं नवनामे इत्यादि। नवनाम्नि नव काव्यरसा: प्रज्ञप्ताः । तत्र कवेरभिप्राय: काव्यम् । रस्यन्ते अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः । उक्तं च -
बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् । स भाव: कथ्यते सद्भिस्तस्योत्कर्षो रस: स्मृतः ॥१॥ (
काव्येषूपनिबद्धा रसा: काव्यरसा: वीर-शृङ्गारादयः । तानेवाह - वीरो सिंगारो इत्यादिगाथा सुगमा । नवरं शूर वीर विक्रान्तौ (का० धा० ९।२१५) इति, वीरयति विक्रामयति त्याग-तपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीर:, रस इति सर्वत्र गम्यते १ । शृङ्गं सर्वरसेभ्य: ९७परमप्रकर्ष-कोटिलक्षणमियर्ति गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मक: शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव
शृङ्गार-हास्य-करुणा-रौद्र-वीर-भयानकाः। बीभत्सा-ऽद्रुत-शान्ताश्च नव नाट्ये रसा: स्मृताः ।।१।। ( )
इत्यादिष्वयं सर्वरसानामादावेव पठ्यते, अत्र तु त्याग-तपोगुणौ वीररसे वर्तेते, त्याग-तपसी च त्यागो गुणो गुणशतादधिको मतो मे ( )परं लोकातिगं धाम तपः श्रुतमिति द्वयम ( ) इत्यादिवचनात् समस्तगुणप्रधाने इत्यनया विवक्षया वीररसस्यादावुपन्यास इति २ । श्रुतं शिल्पं त्यागतप:शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते, तद्दर्शन-श्रवणादिभ्यो जातो
९७. परमप्रकर्षेत्यादि । अत्र तीव्रत्वलक्षणः परमप्रकर्षों ज्ञेयः। यतो मन्देनापि निमित्तेन जीवानामनादिकालीनसंस्कारवशात् समुद्भवतः शृङ्गाररसस्य या तीव्रता भवति, न साऽन्येषुरसेषु प्रायः सम्भवतीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org