________________
श्रीअनुयोगद्वारसूत्रम् [सू०२६१]
१८३ ततिया करणम्मि कया भणियं व कयं व तेण व मए वा ३ । हंदि णमो साहाए हवति चउत्थी पयाणम्मि ४ ॥६॥ अवणय गिण्ह य एत्तो इतो त्ति वा पंचमी अपायाणे ५ । छट्ठी तस्स इमस्स व गयस्स वा सामिसंबंधे ६ ॥६१॥ हवति पुण सत्तमी तं इमम्मि आधार काल भावे य ७ । आमंतणी भवे अट्ठमी उ जह हे जुवाण ! त्ति ८ ॥६२।
सेतं अट्ठणामे। द्वितीयाविधानात्, एवमन्यत्रापि यथासम्भवं वाच्यम् । विवक्षितक्रियासाधकतमं करणम्, तस्मिँस्तृतीया कृता विहिता । सम्प्रदीयते यस्मै तद् गवादिदानविषयभूतं सम्प्रदानम्, तस्मिंश्चतुर्थी विहिता। अपादीयते वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानम्, तत्र पञ्चमी विहिता। स्वम् आत्मीय सचित्तादि, स्वामी राजादिः, तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः । संनिधीयते आधीयते यस्मिंस्तत् सन्निधानम् आधार स्तदेवार्थः, तस्मिन् सप्तमी विहिता । अष्टमी सम्बुद्धि: आमन्त्रणी भवेत्, आमन्त्रणेऽर्थे विधीयत इत्यर्थः ।
एनमेवार्थं सोदाहरणमाह - तत्थ पढमेत्यादिगाथाश्चतस्रो गतार्था एव । नवरं प्रथमा विभक्तिनिर्देशे, क्व यथेत्याह - सो त्ति सः, तथा इमो त्ति अयम्, अहं ति अहम्, वाशब्द उदाहरणान्तरतासूचकः । उपदेशे द्वितीया, क्व यथेत्याह - भण कुरु वा, किं तदित्याह - इदं प्रत्यक्षं तद्वा परोक्षमिति । तृतीया करणे, क्व यथेत्याह - भणितं वा कृतं वा, केनेत्याह - तेन वा मया वेति, अत्र यद्यपि कर्तरि तृतीया प्रतीयते तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयाम:, तत्त्वं तु बहुश्रुता विदन्तीति । हंदि नमो साहाए इत्यादि, हन्दीत्युपदर्शने, 'नमो देवेभ्य:, स्वाहा अग्नये' इत्यादिषु सम्प्रदाने चतुर्थी भवतीत्येके । अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति । अपनय गृहाण एतस्मादितो वेत्येवमपादाने पञ्चमी । तस्यास्य गतस्य वा, कस्य ? भृत्यादेरिति गम्यते इत्येवं स्वस्वामिसम्बन्धे षष्ठी। तद्वस्तु बदरादिकम् अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति । तथा कालभावे य त्ति कालभावयोश्चेयं द्रष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते । आमन्त्रणे भवेदष्टमी, यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचारप्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तच्चाष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org