________________
१८२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सामा गायति महरं, काली गायति खरं च रुक्खं च । गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा। विस्सरं पुण पिंगला ॥५५॥ पंचपदी । सत्त स्सरा तयो गामा मुच्छणा एक्कवीसतिं । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥५६॥ सेत्तं सत्तनामे । (सू० २६१) से किं तं अट्ठनामे ? अट्टविहा वयणविभत्ती पण्णत्ता । तं जहानिद्देसे पढमा होति १ बितिया उवदेसणे २ । तइया करणम्मि कया ३ चउत्थी संपयावणे ४ ॥५७॥ पंचमी य अपायाणे ५ छट्ठी सस्सामिवायणे ६ । सत्तमी सण्णिधाणत्थे ७ अट्ठमाऽऽमंतणी भवे ८ ॥५८॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति १ ।
बितिया पुण उवदेसे भण कुणसु इमं व तं व त्ति २ ॥५९॥ कीदृशी इत्यर्थः । खरं ति खरस्थानम् । रूक्षं प्रतीतम् । चतुरं दक्षम् । विलम्बितं परिमन्थरम् । द्रुतं शीघ्रमिति । विस्सरं पुण केरिसि त्ति गाथाऽधिकमिदम् । अत्र क्रमेणोत्तरमाह - सामा गायइ महुर मित्यादि । अत्रापि विस्सरं पुण पिंगल त्ति गाथाऽधिकमेव । व्याख्या सुकरैव। नवरं पिङ्गला कपिला इत्यर्थः ।
समस्तस्वरमण्डलसंक्षेपाभिधानेनोपसंहरन्नाह - सत्तसरेत्यादि । तता तन्त्री तानो भण्यते । तत्र षड्जादय: स्वरा: प्रत्येकं सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्ताना: सप्ततन्त्रिकायां वीणायां भवन्तीति। एवं तदनुसारेणैकतन्त्रिकायां त्रितन्त्रिकायां कण्ठेनापि वा गीयमाना एकोनपञ्चाशदेव ताना भवन्तीति । तदेवमेतैः षड्जादिभि: सप्तभिर्नामभि: सर्वस्यापि स्वरमण्डलस्याभिधानात् सप्तनामेदमुच्यते । सेतं सत्तनामे त्ति निगमनम् ।
अथाष्टनाम प्रतिपादयन्नाह - से किं तं अट्ठनामे इत्यादि । उच्यन्त इति वचनानि वस्तुवाचीनि, विभज्यते प्रकटीक्रियते अर्थोऽनयेति विभक्तिः, वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिः, अपि तु नामविभक्तिः प्रथमादिकेति भावः । सा चाष्टविधा तीर्थकर-गणधरैः प्रज्ञप्ता। का पुनरियमित्याशय यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह - तद्यथेत्यादि । निद्देसे इत्यादि श्लोकद्वयं निगदसिद्धम् । नवरं लिङ्गार्थमात्रप्रतिपादनं निर्देश:, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति । अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशः, तस्मिन् अम् औ शस् इति द्वितीया विभक्तिर्भवति । उपलक्षणमात्रं चेदम्, कटं करोतीत्यादिषूपदेशमन्तरेणापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org