________________
श्री अनुयोगद्वारसूत्रम् [सू०२६०]
निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥ ५१ ॥ समं अद्धसमं चैव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराई चउत्थं नोवलब्भइ ॥ ५२ ॥ सक्कया पायया चेव भणिईओ होंति दुण्णि उ । सरमंडलम्मि गिज्जंते पसत्था इसिभासिया ॥ ५३॥
(११) केसी गायती महुरं ? केसी गायति खरं च रुक्खं च ? | केसी गायति चउरं ? केसी य विलंबियं ? दुतं केसी ? | विस्सरं पुण केरिसी ? ||५४ || पंचपदी |
स्वरेण यद् गीयते तल्लयसमम् ४ । प्रथमतो वंशतन्त्र्यादिभिर्य: स्वरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसमम् ५ । निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद् गेयं तद् निःश्वसितोच्छ्वसितसमम् ६ | वंशतन्त्र्यादिष्वेवाङ्गुलीसञ्चारसमं यद् गीयते तत् सञ्चारसमम् ७ । एवमेते स्वराः सप्त भवन्ति । इदमुक्तं भवति - एकोऽपि गीतस्वरोऽक्षर - पदादिभिः सप्तभि: स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येते सप्त स्वरा अक्षरादिभिः समा दर्शिता भवन्तीति ।
१८१
गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह - निद्दोसमित्यादि । तत्र अलियमुवघायजणय (आवश्यकनि० ८८१-८८४, कल्पभा० २७८ - २८१) मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषम् १ । विशिष्टार्थयुक्तं सारवत् २ | गीतनिबद्धार्थगमकहेतुयुक्ततया दृष्टं हेतुयुक्तम् ३ । उपमाद्यलङ्कारयुक्तमलङ्कृतम् ४ । उपसंहारोपनययुक्तमुपनीतम् ५ । अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानुप्रासं सोपचारम् ६ । अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितम् ७ । मधुरं श्रव्यशब्दार्थम् ८ । गेयं भव शेषः ।
तिण्णि य वित्ताइं ति यदुक्तं तत्राह - सममित्यादि । यत्र वृत्ते चतुर्ष्वपि पादेषु सङ्ख्यया समान्यक्षराणि भवन्ति तत् समम् । यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसङ्ख्यासमत्वं तदर्द्धसमम् । यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद् विषमम् । जं ति यस्माद् वृत्तं भवतीति शेष:, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः । एवमन्यथाऽप्यविरोधतो व्याख्येयमिदमिति ।
for य भणिइओ ति यदुक्तं तत्राह - सक्कएत्यादि । भणितिर्भाषा | स्वरमण्डले षड्जादिस्वरसमूहे । शेषं कण्ठ्यम् ।
गीतविचारप्रस्तावादिदमपि पृच्छति - केसी गायतीत्यादिप्रश्नगाथा सुगमा । नवरं सिि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org