SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पुण्णं रत्तं च अलंकियं च वत्तं तहेवमविघुटुं। महुरं समं सुललियं अट्ठ गुणा होति गीयस्स ॥४८॥ उर-कंठ-सिरविसुद्धं च गिज्जते मउय-रिभियपदबद्धं । समतालपडुक्खेवं सत्तस्सरसीभरं गीयं ॥४९॥ अक्खरसमं पयसमं तालसमं लयसमं गहसमं च । निस्ससिउस्ससियसमं संचारसमं सरा सत्त ॥५०॥ कंसिकादिशब्दविशेष: ४, काकस्वरं श्लक्ष्णा-ऽश्रव्यस्वरम् ५, अनुनासं नासिकाकृतस्वरम् ६ । एते षड् दोषा गीतस्य भवन्ति । अष्टौ गुणानाह - पुण्णं गाहा । स्वरकलाभि: सर्वाभिरपि युक्तं कुर्वत: पूर्णम् १, गेयरागेण रक्तस्य भावितस्य रक्तम् २, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलङ्कृतम् ३, अक्षरस्वरस्फुटकरणाद् व्यक्तम् ४, विक्रोशनमिव यद् विस्वरं न भवति तदविघुष्टम् ५, मधुमत्तकोकिलारुतवन्मधुरस्वरं मधुरम् ६, ताल-वंशस्वरादिसमनुगतं समम् ७, स्वरघोलनाप्रकारेण सुष्ठ अतिशयेन ललतीव यत् सुकुमालं तत् सुललितम् ८ । एते अष्टौ गुणा गीतस्य भवन्ति । एतद्विरहितं तु विडम्बनामात्रमेव तदिति। किं चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति, तानाह- उर गाहा । चकारो गेयगुणान्तरसमुच्चयार्थः, उर:कण्ठशिरोविशुद्धं च। अयमर्थ: - यारसि स्वरो विशालस्त रोविशुद्धम्, कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च तदा कण्ठविशुद्धम्, शिरसि प्राप्तो यदि नानुनासिकस्तत: शिरोविशुद्धम्, अथवा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुर:कण्ठशिरोविशुद्धम्, गीयते गेयमिति संबध्यते। किंविशिष्टमित्याह - मृदुकं मृदुना अनिष्ठुरेण स्वरेण यद् गीयते तन्मृदुकम्, यत्राक्षरेषु घोलनया संचरन् स्वरो रगतीव तद् घोलनाबहुलं रिभितम्, गेयपदैर्बद्धं विशिष्टविरचनया रचितं पदबद्धम्, ततश्च पदत्रयस्य कर्मधारयः । समतालपडुक्खेवं ति तालाशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरज-कांसिकादिगीतोपकारकातोद्यानां ध्वनि: प्रत्युत्क्षेपः, नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेप:, समौ गीतस्वरेण तालाप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपम् । सत्तसरसीभरं ति, सप्त स्वरा: सीभरन्ति अक्षरादिभि: समा यत्र तत् सप्तस्वरसीभरं गीतमिति, ते चामी सप्त स्वरा: - अक्खरसमं गाहा । यत्र दीर्घ अक्षरे दीर्घो गीतस्वर: क्रियते ह्रस्वे ह्रस्व: प्लुते प्लुत: सानुनासिके तु सानुनासिक: तदक्षरसमम् १ । यद् गीतपदं नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीयते तत् पदसमम् २ । यत् परस्पराहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसमम् ३ । शृङ्ग-दार्वाद्यन्यतरवस्तुमयेनाङ्गुलीकोशकेन समाहततन्त्रीस्वरप्रकारो लय:, तमनुसरता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy