________________
श्री अनुयोगद्वारसूत्रम् [सू०२६०]
नंदी य खुड्डिमा पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधारा वि पंचमिया हवइ मुच्छा उ ।।४१।। सुत्तरमायामा सा छट्टा नियमसो उ णायव्वा । अहउत्तरायता कोडिमा य सा सत्तमी मुच्छा ॥४२॥
(१०) सत्त स्सरा कतो संभवंति ? गीयस्स का हवति जोणी ? | कतिसमया ऊसासा ? कति वा गीयरस आगारा ? || ४३॥
सत्त सरा नाभीओ संभवंति, गीतं च रुन्नजोणीयं । पायसमा उस्सासा, तिण्णि य गीयस्स आगारा ||४४|| आदिमउ आरभंता, समुव्वहंता य मज्झगारम्मि । अवसाय झता, तिन्नि वि गीयस्स आगारा || ४५|| छोसे अट्ठ गुणेतिण्णि य वित्ताणि दोण्णि भणितीओ । जोणाही सो गाहिति सुसिक्खितो रंगमज्झम्मि ||४६ || भीयं दुयमुप्पिच्छं उत्तालं च कमसो मुणेयव्वं । काकस्सरमणुनासं छ होसा होंति गीयस्स ॥४७॥
सत्त सरा कओ गाहा । इह चत्वारः प्रश्नाः, तत्र कुतः इति कस्मात् स्थानात् स्वरा उत्पद्यन्ते १ । का योनिरिति का जाति: २ । तथा कति समया येषु ते कतिसमया उच्छ्वासाः, किंपरिमाणकाला इत्यर्थः ३ । तथा आकारा: आकृतयः, स्वरूपाणि इत्यर्थः ४ । उत्तरमाह - सत्त सरा नाभीओ इत्यादिगाथा स्पष्टा । नवरं रुदितं योनिः समानरूपतया जातिर्यस्य तद् रुदितयोनिकम् । पादसमा उच्छ्वासाः यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः । आइ गाहा । यो गीतस्याकाराः स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह - आरभन्त त्ति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह - आइमउ त्ति आदौ प्रथमतो मृदु कोमलं आदिमृदु, तथा समुद्वहन्तश्च कुर्वन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे मध्यमभागे तथा अवसाने च क्षपयन्तो गीतध्वनिं मन्द्रीकुर्वन्त इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तात्पर्यम् ।
आकारानाह
-
Jain Education International
१७९
किन्तु षड् दोषा वर्जनीयाः, तानाह - भीतं गाहा । भीतमुत्त्रस्तमानसं यद् गीयते इत्येको दोषः १, द्रुतं त्वरितम् २, उप्पिच्छं श्वासयुक्तं त्वरितं च, पाठान्तरेण रहस्सं ति ह्रस्वस्वरम्, लघुशब्दमित्यर्थः ३, उत्तालम् उत् प्राबल्यार्थे, अतितालमस्थानतालं चेत्यर्थः, तालस्तु
For Private & Personal Use Only
www.jainelibrary.org