________________
१७८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (६) एतेसि णं सत्तण्हं सराणं तयो गामा पण्णत्ता। तंजहा-सज्जग्गामे १, मज्झिमग्गामे २, गंधारग्गामे ३।
(७) सज्जग्गामस्स णं सत्त मुच्छणाओ पण्णत्ताओ । तं जहा - मंगी कोरव्वीया हरी य रयणी य सारकंता य । छट्ठी य सारसी दाम सुद्धसजा य सत्तमा ॥३९॥ (८) मज्झिमग्गामस्स णं सत्त मुच्छणाओ पण्णत्ताओ। तंजहा - उत्तरमंदा रयणी उत्तरा उत्तरायसा(ता)। अस्सोकंता य सोवीरा अभीरू भवति सत्तमा ॥४०॥
(९) गंधारग्गामस्स णं सत्त मुच्छणाओ पण्णत्ताओ । तंजहा - यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति । तान्येव फलत आह- सजेणेत्यादिश्लोकाः। षड्जेन लभते वृत्तिम्, अयमर्थः - षड्जस्येदं लक्षणं स्वरूपमस्ति येन तस्मिन् सति वृत्तिं जीवनं लभते प्राणी। एतच्च मनुष्यापेक्षया लक्ष्यते, वृत्तिलाभादीनां घटनात् । कृतं च न विनश्यति, तस्येति शेष:, निष्फलारम्भो न भवतीत्यर्थः । गाव: पुत्राश्च मित्राणि च भवन्तीति शेषः । गान्धारे गीतयुक्तिज्ञा वर्यवृत्तय: प्रधानजीविका: कलाभिरधिका: कवय: काव्यकर्तार: प्राज्ञा: सद्बोधा: ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा: चतुर्वेदादिशास्त्रपारगामिनस्ते भवन्तीति । शकुनेन श्येनलक्षणेन चरन्ति पापर्द्धिं कुर्वन्ति शकुनान् वा घ्नन्तीति शाकुनिका: । वागुरा मृगबन्धनम्, तया चरन्तीति वागुरिका: । शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान् वा घ्नन्तीति शौकरिका: । मौष्टिका मल्ला इति । पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि । ___ एएसिं णं सत्तण्हं सराणं तओ गामा इत्यादि । एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते, यथा -
सज्जाइ तिहा गामो, स समूहो मुच्छणाण विन्नेओ। ता सत्त एक्कमेक्के, तो सत्तसराण इगवीसा ।।१।। अन्नन्नसरविसेसे, उप्पायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव, कुणई मुच्छं व सो व त्ति ।।२।। ( )
कर्ता वा मूर्च्छित इव ता: करोतीति मूर्च्छना उच्यन्ते । मुच्छं व सो व त्ति मूर्च्छनिव वा स कर्ता ता: करोतीति मूर्च्छना उच्यन्त इत्यर्थः । मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषा: पूर्वगतस्वरप्राभृते भणिता:, इदानीं तु तद्विनिर्गतेभ्यो भरत-विशाखिलादिशास्त्रेभ्यो विज्ञेया इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org