________________
१७७
श्रीअनुयोगद्वारसूत्रम् [सू०२६०]
गंधारे गीतजुत्तिण्णा ववित्ती कलाहिया । हवंति कइणो पण्णा ने अपणे सत्थपागा ३ ।।३४।। मज्झिमसरमंता उ हवंति सुहजीविणो । खायती पियती देती मज्झिमस्सरमस्मिओ ४ ॥३५।। पंचमस्सरमंता उ हवंता पुहवीपती। सूरा संगहकत्तारो अणेगणरणायगा ५ ॥३६।। धेवयसरमंता उ हवंति कलहप्पिया । साउणिया वग्गरिया सोयरिया मच्छबंधा य ६ ॥३७।। चंडाला मुट्ठिया मेता, जे यऽण्णे पावकारिणो ।
गोघातगा य चोरा य नेसातं सरमस्सिता ७ ॥३८।। स्थानान्तराण्यपि कण्ठादीनि व्यापियन्ते अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्युक्तम् । इदमत्र हृदयम् षड्जस्वरोऽग्रजिह्वां प्राप्य विशिष्टां व्यक्तिमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या । उरो वक्षस्तेन ऋषभं स्वरम्, ब्रूयादिति सर्वत्र संबध्यते । कंटुग्गएणं ति कण्ठादुद्गमनमुद्गतिः स्वरनिष्पत्तिहेतुभूता क्रिया, तेन कण्ठोदतेन गान्धारम् । जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमम् । तथा दन्ताश्चौष्ठौ च दन्तोष्टम, तेन धैवतम, रैवतं वेति, भ्रक्षेपावष्टाभेन निषादमिति ।।
इत ऊर्ध्वं सर्वं निगदसिद्धमेव । नवरं जीवनिस्सिय नि जीवाश्रिता: जीवेभ्यो वा निसृता निर्गता: । सजं रखतीत्यादिश्लोकः, रतति नदति । गवेलग त्ति गावश्च एलकाश्च ऊरणका गवेलका:, अथवा गवेलका ऊरणका एव । अह कुसुमेत्यादि, अथेति विशेषणार्थ:, विशेषणार्थता चैवम्यथा गवेलका अविशेषेण मध्यमस्वरं नदन्ति न तथा पञ्चमं कोकिल:, अपि तु कुसुमसंभवे काले त्ति वनस्पतिषु बाहुल्येन कसुमागां मल्लिका पाटलादीनां साजो यस्मिन् काले स तथा, तस्मिन्, मधुमास इत्यर्थः ।
अजीवनिस्सिय त्ति तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी मन्तव्याः, अपरं च षड़जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यर्थो न घटते तथापि सादृश्यात् तद्भावोऽवगन्तव्यः । समित्यादि श्लोकट्टयम्, गोमुखी काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति । चतुर्भिश्चरणैः प्रतिष्ठानम् अवस्थानं भुवि यस्याः सा गोधाचविनद्धा गोधिका वाद्यविशेषो दर्दरिकेत्यपरनाम्ना प्रसिद्धा । आडम्बर: पटहः । सप्तममिति निषादमित्यर्थः ।
एएसि णमित्यादि । एतेषा सप्तानां स्वराणा प्रत्येक लक्षणस्य विभिन्नत्वात् सप्त स्वरलक्षणानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org