________________
१७६
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं
(४) सच सरा अजीवणिस्सिया पण्णत्ता । संजहा सज्जं वइ मुयंगो ? गोमुही रिसह सरं २ | संखो रखड़ गंधार झिगं पुण झल्लरी ४ ||३०|| चउचलणपतिडाणा गोहिया पंचमं सरं ५ । आडंबरो धेवइयं ६. महाभेरी य सत्तमं ७ ||३१|| (५) एएसि
सत्तरहं सराणं सत्त सरलक्खणा पण्णत्ता । तंजहा सज्जेण लहड़ वित्तिं कयं च न विणस्सई ।
गाव पुत्ताय मित्ताय नारीणं होति वल्लहो १ ||३२|| रिसहेणं तु एसज्जं सेणावच्चं धणाणि य । are गंधमलंकारं इत्थीओ सयणाणि य २ ॥ ३३॥
तथाऽतिसन्धयते अनुसंधयति शेषस्वरानिति निरुक्तिवशाद्धैवत: । यदुक्तम् -
अतिसंघयते यस्मादेतान् पूर्वोदितस्वरान् ।
तस्मादस्य स्वस्यापि धैवतत्वं विधीयते ॥ ६॥ (
पाठान्तरेण रेवतथैवेति ।
तथा निषीदन्ति स्वरा यस्मिन् स निषादः यतोऽभिहितम् -
निषीदन्ति स्वरा यस्मिन्निषादस्तेन हेतुना ।
सर्वांश्राभिभवत्येव यदादित्योऽस्य दैवतम् ॥७॥ ( ) इति ।
तदेवं स्वरा: जीवाजीवनिश्रितध्वनिविशेषा: सत्त वियाहिय ति विविधप्रकारैराख्यातास्तीर्थकर - गणधरैरिति श्लोकार्थ: ।
आह- ननु कारणभेदेन कार्यस्य भेदात् स्वराणां च जिह्वादिकारणजन्यत्वात् तद्वतां च द्वीन्द्रियादित्रसजीवानाममइख्येयत्वा जीवनिश्रिता अपि तावत् स्वरा असङ्ख्याताः प्राप्नुवन्ति, किमुताजीवनिश्रिता इति कथं सममयानियमो न विरुभ्यत इति ? अत्रोच्यते, असङ्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसु सामान्यस्वरेष्वन्तर्भावाद बादराणां वा केषाञ्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद पीतोपकारिणां विशिष्टस्वराणां वक्तुमिष्टत्वाददोष इति ।
स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराह - एएसि णमित्यादि । तत्र नाभेरुत्थितोऽविकारी स्वर आभोगतोऽभोगतो वा यदत्र जिह्वादिस्थानं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमतः स्वरस्थानमुच्यत । तत्र सजमित्यादिश्लोकद्वयं सुगमम् । नवरं चकारोऽवधारणे, षड्जमेव प्रथमस्वलक्षणं ब्रूयात् । कयेत्याह- अगभूता जिह्वा अग्रजिह्वा, जिह्वाग्रमित्यर्थः, तया । इह यद्यपि षड्जभणने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org