________________
१८५
श्रीअनुयोगद्वारसूत्रम् [सू०२६२] (३) सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो।
मंडण-विलास-बिब्बोय-हास-लीला-रमणलिंगो॥६६॥ सिंगारो रसो जहा
महुरं विलासललियं हिययुम्मादणकरं जुवाणाणं ।
सामा सदुद्दामं दाएती मेहलादामं ॥६७॥ (४) विम्हयकरो अपुव्वो व भूयपुव्वो व जो रसो होइ ।
सो हास-विसायुप्पत्तिलक्खणो अब्भुतो नाम ॥६८॥ अब्भुओ रसो जहा
अब्भुयतरमिह एत्तो अन्नं किं अत्थि जीवलोगम्मि ।
जं जिणवयणेणऽत्था तिकालजुत्ता वि णज्जंति ? ॥६९॥ रसोऽप्युपचाराद्विस्मयरूपोऽद्भुत: ३ । रोदयति अतिदारुणतया अश्रूणि मोचयतीति रौद्रं रिपुजनमहारण्याऽन्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्र: ४ । व्रीडयति लज्जामुत्पादयतीति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलीकतादिस्वरूपो व्रीडनकः, अस्य स्थाने भयजनकसङ्ग्रामादिवस्तुदर्शनादिप्रभवो भयानको रस: पठ्यते अन्यत्र, स चेह रौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्त: ५ । शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसोऽपि बीभत्स: ६ । विकृता-ऽसम्बद्धपरवचन-वेषा-ऽलङ्कारादिहास्याहपदार्थप्रभवो मन:प्रहर्षादिचेष्टात्मको रसोऽपि हास्य: ७ । कुत्सितं रौत्यनेनेति निरुक्तवशात् करुण:, करुणास्पदत्वात् करुणः, प्रियविप्रयोगादिदुःखहेतुसमुत्थ: शोकप्रकर्षस्वरूप: करुणो रस इत्यर्थः ८ । प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्त:, परमगुरुवच:श्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण ९।।
एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाह- तत्थ परिचागम्मि य गाहा । तत्र तेषु नवसु रसेसु मध्ये परित्यागे दाने तपश्चरणे तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशय-धृति-पराक्रमचिह्नो वीरो रसो भवति। इदमुक्तं भवति - दाने दत्ते यदाऽनुशयो गर्व: पश्चात्तापो वा तं न करोति, तपसि च कृते धृतिं करोति नार्तध्यानम्, शत्रुविनाशे च पराक्रमते, न तु वैक्लव्यमवलम्बते, तदा एतैर्लिङ्गैर्ज्ञायतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति । उदाहरणनिदर्शनार्थमाह - वीरो रसो यथेत्युपदर्शनार्थमेतत् । सो नाम गाहा पाठसिद्धा । नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवंप्रकारेषु काव्येषु वीररस: प्रतिपत्तव्य इति भावार्थः । अपरं चेहोत्तमपुरुषजेतव्यकाम-क्रोधादिभावशत्रुजयेनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org