________________
१८६
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(4)
भयजणणरूव-सद्दंधकार - चिंता - कहासमुप्पन्नो । सम्मोह - संभम-विसाय-मरणलिंगो रसो रोद्दो ॥७०॥ रोद्दो रसो जहा
भिउडीविडंबियमुहा ! संदट्ठोट्ठ ! इय रुहिरमोकिण्ण ! |
(६)
स प असुरणिभा ! भीमरसिय ! अतिरोद्द ! रोद्दोऽसि ॥ ७१ ॥ विणयोवयारर-गुज्झ - गुरुदारमेरावतिक्कमुप्पण्णो । वेलणओ नाम रसो लज्जा-संकाकरणलिंगो ॥ ७२ ॥ वेलणओ रसो जहा
किं लोइयकरणीओ लज्जणियतरं ति लज्जिया होमो । वारिज्जम्मि गुरुजणो परिवंदड़ जं वहूपोत्तिं ॥ ७३॥ इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति । एवमन्यत्रापि भावार्थो -
saगन्तव्य इति ।
शृङ्गाररसं लक्षणतः प्राह - सिंगारो गाहा । शृङ्गारो नाम रसः । किंविशिष्ट इत्याह - रतीत्यादि, रतिशब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते, तैः सार्धं संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव । तथा मण्डन - विलास - विब्बोक - हास्य- लीला-रमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कटकादिभिः, विलासः कामगर्भो रम्यो नयनादिविभ्रमः, विब्बोय त्ति देशीपदम् अङ्गजविकारार्थे, हास्यं प्रतीतम्, लीला सकामगमनभाषितादिरमणीयचेष्टा, रमणं क्रीडनमिति । उदाहरणमाह - सिंगारो इत्यादि । महुर गाहा । श्यामा स्त्री मेखलादाम रसनासूत्रं दर्शयति प्रकटयतीत्यर्थः, कथंभूतमित्याह - रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरम्, तथा विलासैः सकामैश्चेष्टाविशेषैर्ललितं मनोहारि, तथा शब्दोद्दामं किङ्किणीस्वनमुखरम्, किमिति तत् प्रकटयतीत्याह - यतो हृदयोन्मादनकरं प्रबलस्मरदीपनं यूनामिति । शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो र इति ।
अद्भुतं स्वरूपतो लक्षणतश्चाह - विम्हय गाहा । कस्मिँश्चिदद्भुते वस्तुनि दृष्टे विस्मयकरो विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतो नामेति सण्टङ्कः । कथंभूतः ? अपूर्व: अननुभूतपूर्वो भूतपूर्वो वाऽनुभूतपूर्वः । किंलक्षण इत्याह- हर्ष - विषादोत्पत्तिलक्षणः, शुभे वस्तुन्यद्भुते दृष्टे हर्षजननलक्षणः, अशुभे तु विषादजननलक्षण इत्यर्थः । उदाहरण अब्भुय गाहा । इह जीवलोकेऽद्भुततरम् इतो जिनवचनात् किमन्यदस्ति ? नास्तीत्यर्थः । कुत इत्याह- यद् यस्माज्जिनवचनेनार्था: जीवादय: सूक्ष्म-व्यवहित- तिरोहिता-ऽतीन्द्रिया-ऽमूर्त्तादिस्वरूपाः अतीता-ऽनागतवर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org