________________
१८७
श्रीअनुयोगद्वारसूत्रम् [सू०२६२] (७) असुइ-कुणव-दुईसणसंजोगब्भासगंधनिप्फण्णो।
निव्वेयऽविहिंसालक्खणो रसो होइ बीभत्सो ॥७४॥ बीभत्सो रसो जहा
__ असुइमलभरियनिज्झर सभावदुग्गंधि सव्वकालं पि।
धण्णा उ सरीरकलिं बहुमलकलुसं विमुंचंति ॥७५।। ____ अथ रौद्रं हेतुतो लक्षणतश्चाह - भय गाहा । रूपं शत्रु-पिशाचादीनाम्, शब्दस्तेषामेव, अन्धकार बहलतमोनिकुरुम्बरूपम्, उपलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां भयजनकानां रूपादिपदार्थानां येयं चिन्ता तत्स्वरूपपर्यालोचनरूपा, कथा तत्स्वरूपभणनलक्षणा, तथोपलक्षणत्वाद् दर्शनादि च गृह्यते, तेभ्य: समुत्पन्नो जातो रौद्रो रस इति योग: । किंलक्षण इत्याह - संमोहः किंकर्तव्यत्वमूढता, सम्भ्रमो व्याकुलत्वम्, विषादः किमहमत्र प्रदेशे समायात इत्यादिखेदस्वरूपः, मरणं भयोभ्रान्त गजसुकुमालहन्तृसोमिलद्विजस्येव प्राणत्यागः, तानि लिङ्गं लक्षणं यस्य स तथा । आह - ननु भयजनकरूपादिभ्य: समुत्पन्न: संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वम् ? सत्यम्, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः । तथा शत्रुजनादिदर्शने तच्छिर:कर्त्तनादिप्रवृत्तानां पशु-शूकर-कुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भ्रकुटीभङ्गादिलिङ्गो रौद्रो रस: सोऽप्युपलक्षणत्वादत्रैव द्रष्टव्यः, अन्यथा स निरास्पद एव स्यात्, अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रपञ्चेन । उदाहरणमाह - भिउडी गाहा। त्रिवलीतरङ्गितललाटरूपया भ्रकुट्या विडम्बितं विकृतीकृतं मुखं यस्य तत्सम्बोधनं हे भ्रकुटीविडम्बितमुख ! संदष्टौष्ठ ! इत इति इतश्च इतश्च रुहिरमोक्किण्ण त्ति विक्षिप्तरुधिर ! इत्यर्थः, हंसि व्यापादयसि पशुम्, असुरो दानवस्तन्निभ ! तत्सदृश ! भीमं रसितं शब्दितं यस्य, तत्संबोधनं हे भीमरसित ! अतिरौद्र अतिशयरौद्राकृते ! रौद्रोऽसि रौद्रपरिणामयुक्तोऽसीति ।
अथ व्रीडारसं हेतुतो लक्षणतश्चाह - विणओ गाहा। विनयोपचार-गुह्य-गुरुदारमर्यादानां व्यतिक्रम: स्थितिलङ्घनं तदुत्पन्नो व्रीडनको नाम रसो भवति। तत्र विनयार्हाणां विनयोपचारव्यतिक्रमे शिष्टस्य व्रीडा प्रादुरस्ति - पश्यत, मया कथं पूज्यपूजाव्यतिक्रम: कृत: ? इति । तथा गुह्यं रहस्य तस्य च व्यतिक्रमेऽन्यकथनादिलक्षणे व्रीडारस: आविर्भवति । तथा गुरव: पूज्या: पितृव्यकलाग्राहकोपाध्यायादयस्तद्दारैश्च सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रमे कृते लज्जारस: प्रादुर्भवतीति । एवमन्योऽपि द्रष्टव्यः। किंलक्षण इत्याह - लज्जाशङ्कयो: करणं विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमन-गात्रसङ्कोचादिका लज्जा, मां न क्वचित् कश्चित् किञ्चिद्भणिष्यतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org