________________
१८८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (८) रूव-वय-वेस-भासाविवरीयविलंबणासमुप्पन्नो।
हासो मणप्पहासो पकासलिंगो रसो होति ॥७६॥ हासो रसो जहा
पासुत्तमसीमंडियपडिबुद्ध देयरं पलोयंती।
ही ! जह थणभरकंपणपणमियमज्झा हसति सामा ॥७७॥ सर्वत्राभिशङ्कितत्वं शङ्केति । अत्रोदाहरणं किं लोइय गाहा । इह क्वचिद्देशेऽयं समाचारः, यदुत अभिनववध्वा: स्वभ; यत् प्रथमयोन्युद्भेदे कृते शोणितचर्चितं तन्निवसनम्, ‘अक्षतयोनिरियं न पुनरग्रेऽप्यासेवितानाचारा' इति संज्ञापनार्थं प्रतिगृहं भ्राम्यते, सकलजनसमक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजन: सतीत्वख्यापनार्थं तद्वन्दत इति, एवं व्यवस्थिते सखीपुरतो वधूभणति - किं लोइयकरणीउ त्ति करणिः क्रिया, ततश्च लौकिकक्रियाया लौकिककर्त्तव्यात् सकाशात् किमन्यल्लज्जनीयतरम् ? न किञ्चिदित्यर्थः, इत्यतो लज्जिताऽहं भवामि । किमिति ? यतो वारेज्जो विवाहः, तत्र गुरुजनो वन्दते वहूपोत्तिं ति वधूनिवसनमिति । ___अथ बीभत्सं हेतुतो लक्षणतश्चाह - असुइ गाहा। अशुचि मूत्र-पुरीषादि वस्तु, कुणपं शव:, अपरमपि यदुर्दर्शनं गलल्लालादिकरालं शरीरादि, तेषां संयोगाभ्यासाद् अभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो 'बीभत्सो रसो भवतीति सम्बन्ध: । किंलक्षण इत्याह - निर्वेदश्च अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा । तत्र निर्वेद: उद्वेगः, अविहिंसा जन्तुघातादिनिवृत्ति:, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्य: कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तेति । असुईत्याद्युदाहरणगाथा । इह कश्चिदुपलब्धशरीराद्यसारतास्वरूप: प्राह - कलि: जघन्य: कालविशेष: कलहो वा, तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलि: शरीरकलि:, तं मूर्छात्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्या: केचिद्विमुञ्चन्तीति सण्टङ्कः । कथंभूतम् ? अशुचिमलभृतानि निर्झराणीव निर्झराणि श्रोत्रादिविवराणि यस्य तं तथा, सर्वकालमपि स्वभावतो दुर्गन्धम्, तथा बहुमलकलुषमिति । एवं वाचनान्तराण्यपि भावनीयानि ।
अथ हास्यरसं हेतु-लक्षणाभ्यामाह - रूव गाहा । रूप-वयो-वेष-भाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना निर्वर्तना तत्समुत्पन्नो 'हास्यो रसो भवतीति संयोगः । तत्र पुरुषादेोषिदादिरूपकरणं रूपवैपरीत्यम्, तरुणादेवृद्धादिभावापादानं वयोवैपरीत्यम्, राजपुत्रादेर्वणिगादिवेषनिर्वर्तनं वेषवैपरीत्यम्, गुर्जरादेस्तु मध्यदेशादि-भाषाभिधानं भाषावैपरीत्यम् । स च कथंभूतं: स्यादित्याह - मणप्पहासो त्ति, मन:प्रहर्षकारी प्रकाशो नेत्र-वक्त्रादिविकाशस्वरूपो लिङ्गं यस्य स तथा, अथवा प्रकाशानि प्रकटान्युदरप्रकम्पना-ऽट्टहासादीनि लिङ्गानि यस्येति स तथेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org