________________
१८२
श्रीअनुयोगद्वारसूत्रम् [सू०२६२] (९) पियविप्पयोग-बंध-वह-वाहि-विणिवाय-संभमुप्पन्नो।
सोचिय-विलविय-पव्वाय-रुन्नलिंगो रसो कलुणो॥७८॥ कलुणो रसो जहा
पज्झातकिलामिययं बाहागयपप्पुयच्छियं बहुसो ।
तस्स वियोगे पुत्तय ! दुब्बलयं ते मुहं जायं ॥७९॥ पासुत्तमसी त्यादिनिदर्शनगाथा । इह कयाचिद् वध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डित:, प्रबुद्धं च तं सा हसति, तां च हसन्तीमुपलभ्य कश्चित् पार्श्ववर्तिनं कञ्चिदामन्त्र्य प्राह - हीति कन्दर्पातिशयद्योतकं वचः, पश्यत भो: श्यामा स्त्री यथा हसतीति सम्बन्धः, किं कुर्वती ? देवरं प्रलोकयन्ती, कथंभूतम् ? पासुत्तेत्यादि छिन्नप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तम्, कथंभूता? स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा तथेति ।
अथ हेतुतो लक्षणतश्च करुणरसस्वरूपमाह - पियविप्पओय गाहा। प्रियविप्रयोग-बन्धवध-व्याधि-विनिपात-सम्भ्रमेभ्यः समुत्पन्न: करुणो रस इति योग: । तत्र विनिपात: सुतादिमरणम्, सम्भ्रम: परचक्रादिभयम्, शेषं प्रतीतम् । किंलक्षण इत्याह - शोचित-विलपितप्रम्लान-रुदितानि लिङ्गानि लक्षणानि यस्य स तथा । तत्र शोचितं मानसो विकारः, शेषं विदितमिति । पज्झायेत्याधुदाहरणगाथा । अत्र प्रियविप्रयोगदूमितां बालां प्रति वृद्धा काचिदाह - तस्य कस्यचित् प्रियतमस्य वियोगे हे पुत्रिके ! दुर्बलकं ते मुखं जातम् कथंभूतम्, ? पज्झायकिलामितयं ति, प्रध्यातं प्रियजनविषयमतिचिन्तितं तेन क्लान्तम् । बाहागयपप्पुतच्छयं ति, बाष्पस्यागतम् आगमनं तेन प्रप्लुते व्याप्ते अक्षिणी यत्र तत्तथा, बहुश: अभीक्ष्णमिति । ___अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरति- निद्दोस गाहा । निर्दोषं हिंसादिदोषरहितं यन्मनस्तस्य यत् समाधानं विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात् सम्भवो यस्य स तथा। प्रशान्तभावेन क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना । स चाविकारलक्षणो निर्विकारताचिह्न इत्यर्थः । सब्भावेत्याधुदाहरणगाथा । प्रशान्तवदनं कञ्चित् साधुमवलोक्य कश्चित् समीपस्थितं कञ्चिदाश्रित्य प्राह - हीति प्रशान्तभावातिशयद्योतकः, पश्य भोः ! यथा मुनेर्मुखकमलं शोभते, कथंभूतम् ? सद्भावतो न मातृस्थानतो निर्विकारं विभूषाभ्रूक्षेपादिविकाररहितम्, उपशान्ता रूपालोकनाद्यौत्सुक्यत्यागत: प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा । अस्मादेव च पीवरश्रीकम् उपचितोपशमलक्ष्मीकमिति ।
साम्प्रतं नवानामपि रसानां संक्षेपत: स्वरूपं कथयन्नुपसंहरन्नाह - एए नव गाहा। एते नव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org