________________
१९०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (१०) निद्दोसमणसमाहाणसंभवो जो पसंतभावेणं ।
अविकारलक्खणो सो रसो पसंतो त्ति णायव्वो ॥८॥ पसंतो रसो जहा
सब्भावनिव्विकारं उवसंत-पसंत-सोमदिट्ठीयं । ही ! जह मुणिणो सोहति मुहकमलं पीवरसिरीयं ॥८१॥ एए णव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा।
गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा ॥८२॥ से तं नवनामे ।
(सू० २६३) से किं तं दसनामे ? दसनामे दसविहे पण्णत्ते । तं जहाकाव्यरसा: अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या ज्ञातव्याः । कथंभूता: ? अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिल (आवश्यकनि०८८१-८८४, कल्पभा० २७८-२८१) इत्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधि: विरचनं तस्मात् समुत्पन्नाः, इदमुक्तं भवति - अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद् रसो निष्पद्यते, यथा -
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्यश्व-रथवाहिनी ॥१॥ ( )
इत्येवंप्रकारं सूत्रमलीकतादोषदुष्टम्, रसश्चायमद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः । तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निर्वय॑ते, यथा -
स एव प्राणिति प्राणी प्रीतेन कुपितेन च । वित्तैर्विपक्षरक्तैश्च प्रीणिता येन मार्गणा: ॥१॥ (
इत्यादिप्रकारं सूत्रं परोपघातलक्षणदोषदुष्टम्, वीररसश्चायम्, ततोऽनेनोपघातलक्षणेन सूत्रदोषेण वीररसोऽत्र निर्वृत्तः इत्येवमन्यत्रापि यथासम्भवं सूत्रदोषविधानाद्रसनिष्पत्तिर्वक्तव्या । प्रायोवृत्तिं चाश्रित्यैवमुक्तम्, तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदनृतादिसूत्रदोषानन्तरेणापि निष्पत्तेरिति । पुन: किंविशिष्टा अमी भवन्तीत्याह - हवंति सुद्धा व मीसा व त्ति सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित् काव्ये शुद्ध एक एव रसो निबध्यते, क्वचित्तु द्व्यादिरससंयोग इति भाव इति गाथार्थः । तदेवमेतैर्वीर-शृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तु मिष्टस्य रसस्य सर्वस्याप्यभिधानान्नवनामेदमुच्यते । सेतं नवनामे ति निगमनम् ।
अथ दशनामाभिधानार्थमाह - से किं तं दसनामे इत्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org