________________
श्रीअनुयोगद्वारसूत्रम् [सू०२६४-२६६]
१९१
गोणे १, नोगोणे २, आयाणपदेणं ३, पडिपक्खपदेणं ४, पाहण्णयाए ५, अणादियसिर्द्धतेणं ६, नामेणं ७, अवयवेणं ८, संजोगेणं ९, पमाणेणं १० ।
(सू० २६४) से किं तं गोण्णे ? गोण्णे - खमतीति खमणो, तपतीति तपणो, जलती जलणो, पवतीति पवणो । सेतं गोण्णे ।
(सू० २६५) से किं तं नोगोण्णे ? नोगोण्णे - अकुंतो सकुंतो, अमुग्गो समुग्गो, अमुद्दो समुद्दो, अलालं पलालं, अकुलिया सकुलिया, नो पलं असतीति पलासो, अमातिवाहए मातिवाहए, अबीयवावए बीयवावए, नो इंदं गोवयतीति इंदगोवए । से तं नोगोण्णे ।
(सू० २६६) से किं तं आयाणपदेणं ? आयाणपदेणं - आवंती चातुरंगिज्जं असंखयं इज्जं पुरिसइज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं आहत्तधिज्जं गंथे जमईयं । सेतं आयाणपदेणं ।
गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह से किं तं गुण्णे इत्यादि । गुणैर्निष्पन्नं गौणम्, यथार्थमित्यर्थः, तच्चानेकप्रकारम्, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नम् । तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निर्वृत्तम् । एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १ |
से किं तं नोगुण्णे इत्यादि, गुणनिष्पन्नं यन्न भवति तन्नोगौणम्, अयथार्थमित्यर्थः अकुंते सकुंते इत्यादि, अविद्यमान कुन्ताख्यप्रहरणविशेष एव सकुन्तत्ति पक्षी प्रोच्यत इत्ययथार्थता । एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेषः समुद्रः । अङ्गुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो जलराशिः । अलालं पलालं ति इह प्रकृष्टा लाला यत्र तत् प्रलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु लालाऽभावस्तत् कथं तृणविशेषरूपं पलालमुच्यत इति प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं निर्व्युत्पत्तिकमेवोच्यते इति न यथार्था-ऽयथार्थचिन्ता संभवति । अउलिया सउलिय त्ति अत्रापि कुलिकाभिः सह वर्तमानैव प्राकृते सउलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति ? इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः ? इत्येवमन्यथाऽप्यविरोधत: सुधिया भावना कार्या । पलं मांसमनश्नन्नपि पलाश इत्यादि तु सुगमम् । नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषा: । सेत्तं नोगुणणे त्ति निगमनम् २ |
से किं तं आयाणपणमित्यादि । आदीयते तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानम्, तच्च तत्पदं चादानपदम्, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च आवंतीत्यादि, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनम्, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org