________________
१९२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० २६७) से किं तं पडिपक्खपदेणं ? पडिपक्खपदेणं- णवेसु गामा-ऽऽगरणगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-सन्निवेसेसु निविस्समाणेसु असिवा सिवा, अग्गी सीयलो, विसं महुरं, कल्लालघरेसु अंबिलं साउयं, जे लत्तए से अलत्तए, जे लाउए से अलाउए, जे सुंभए से कुसुभए, आलवंते विवलीयभासए । सेतं पडिपक्खपदेणं । आवन्ती केयावन्ती [आचाराङ्ग० १।५।१।१४७] इत्यालापको विद्यत इत्यादानपदेनैतन्नाम। चाउरंगिज्जं ति एतदुत्तराध्ययनेषु तृतीयमध्ययनम्, तत्र चादौ चत्तारि परमंगाणि दुल्लहाणीह जंतुणो (३१) इत्यादि विद्यते । असंखयं ति इदमपि उत्तराध्ययनेष्वेव चतुर्थमध्ययनम्, तत्र च आदावेव असंखयं जीविय मा पमायए (४।१) इत्येतत् पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वतीन्यध्ययनानि कानिचित्तु दशवैकालिक-सूयगडाद्यध्ययनानि स्वधिया भावनीयानि ३ । निगमयति - सेत्तं आयाणपएणं ति।
से किं तं पडिवक्खपएणमित्यादि । विवक्षितवस्तुधर्मस्य विपरीतो धर्मो विपक्ष:, तद्वाचकं पदं विपक्षपदम्, तन्निष्पन्नं किञ्चिन्नाम भवति । यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते । किं सर्वदा ? नेत्याह - नवेसु इत्यादि, तत्र ग्रसते बुद्धयादीन् गुणानिति ग्राम: प्रतीतः । आकरो लोहाद्युत्पत्तिस्थानम् । नगरं कररहितम् । खेटं धूलीमयप्राकारोपेतम् । कर्बट कुनगरम् । मडम्बं सर्वतो दूरवर्तिसन्निवेशान्तरम्। द्रोणमुखं जलपथ-स्थलपथोपेतम् । पत्तनं नानादेशागतपण्यस्थानम् । तच्च द्विधा - जलपत्तनं स्थलपत्तनं च । रत्नभूमिरित्यन्ये । आश्रम: तापसादिस्थानम् । सम्बाध: अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेष: । सन्निवेशो घोषादिः, अथवा ग्रामादीनां द्वन्द्वे ते च ते सन्निवेशाश्चेत्येवं योज्यते । ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थं शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपि कदाचित् केनापि कारणवशेनाग्नि: शीतो विषं मधुरमित्याद्याचष्टे । तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यति, अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते । तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह - जे लत्तए इत्यादि, यो रक्तो लाक्षारसेन स एव रश्रुतेर्लश्रुत्या अलक्तक उच्यते । तथा यदेव लाति आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्तेर्लाबु तदेव अलाबु तुम्बकमभिधीयते । य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः । आलवंते त्ति आलपन् अत्यर्थं लपन्नसमञ्जसमिति गम्यते, स किमित्याह - विवलीयभासए त्ति भाषकाद् विपरीतो विपरीतभाषकं इति, राजदन्तादिवत् समास:, अभाषक इत्यर्थः, तथाहि - सुबह्वसम्बद्धं प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति अभाषक एवायं द्रष्टव्योऽसारवचनत्वादिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org