________________
श्रीअनुयोगद्वारसूत्रम् [सू०२६८-२७१]
(सू० २६८) से किं तं पाहण्णयाए ? पाहण्णयाए- असोगवणे सत्तवण्णवणे चंपकवणे चूयवणे नागवणे पुन्नागवणे उच्छुवणे दक्खवणे सालवणे । सेतं पाहण्णयाए।
(सू० २६९) से किं तं अणादियसिद्धतेणं ? अणादियसिद्धतेणं- धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए, अद्धासमए । सेतं अणादियसिद्धतेणं।
(सू० २७०) से किं तं नामेणं ? नामेणं- पिउपियामहस्स नामेणं उन्नामियए। सेतं णामेणं।
(सू० २७१) से किं तं अवयवेणं ? अवयवेणंसिंगी सिही विसाणी दाढी पक्खी खुरी णही वाली ।
दुपय चउप्पय बहुपय णंगूली केसरी ककुही ॥८३॥ प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया । ननु च नोगौणादिदं न भिद्यते इति चेत्, नैतदेवम्, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावमात्रेणैवोक्तत्वात्, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेष: ४ ।
से किं तं पाहण्णयाए इत्यादि । प्रधानस्य भाव: प्रधानता, तया किमपि नाम भवति, यथा बहुष्वशोकवृक्षेषु स्तोकेषु त्वाम्रादिपादपेष्वशोकप्रधानं वनमशोकवनमिति नाम । सप्तपर्णाः सप्तच्छदास्तत्प्रधानं वनं सप्तपर्णवनमित्यादि सुगमम् । नवरमत्राप्याह - ननु गुणनिष्पन्नादिदं न भिद्यते, नैवम्, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावादिति भेद: ५।
से किं तं अणाइसिद्धतेणमित्यादि । अमनम् अन्तो वाच्यवाचकरूपतया परिच्छेदोऽनादिसिद्धश्चासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धः प्रतिष्ठितो योऽसावन्त: परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच्च प्राग्व्याख्यातार्थं धर्मास्तिकायादि, एतेषां च नाम्नामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि स्वस्वरूपमित्येतावता गौणनाम्नः पृथगेतदुक्तमिति ६ ।
से किं तं नामेणमित्यादि। नाम पितृपितामहादेर्वाचकमभिधानम्, तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, किं पुनस्तदित्याह - पिउपियामहस्स नामेणं उन्नामियए त्ति, पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रादिरुन्नामित उत्क्षिप्त: प्रसिद्धिं गत इति यावत् स एव नाम-तद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद् बन्धुदत्तादिनामाऽऽसीत् तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम् ७ ।
से किं तं अवयवेणमित्यादि । अवयवोऽवयविन एकदेशस्तेन नाम यथा सिंगी सिही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org