________________
१९४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
परियरबंधेण भडं जाणेज्जा, महिलियं निवसणेणं ।
सित्थेण दोणपागं, कविं च एगाइ गाहाए ॥ ८४ ॥ सेतं अवयवेणं ।
( सू० २७२ ) से किं तं संजोगेणं ? संजोगे चउव्विहे पण्णत्ते । तंजहा- दव्वसंजोगे १, खेत्तसंजोगे २, कालसंजोगे ३, भावसंजोगे ४ ।
(सू० २७३ ) से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पण्णत्ते । तं जहा- सचित्ते १, अचित्ते २, मीसए ३ ।
(सू० २७४) से किं तं सचित्ते ? सचित्ते - गोहिं गोमिए, महिसीहिं माहिसिए, ऊरणीहिं ऊरणिए, उट्टीहिं उट्टवाले । सेतं सचित् ।
( सू० २७५) से किं तं अचित्ते ? अचित्ते छत्तेण छत्ती, दंडेण दंडी, पडेण पडी, घडेण घडी, कडेण कडी । सेतं अचित्ते ।
( सू० २७६ ) से किं तं मीसए ? मीसए- हलेणं हालिए, सकडेणं साकडिए, रहेणं रहिए, नावाए नाविए । सेतं मीसए । सेतं दव्वसंजोगे ।
( सू० २७७ ) से किं तं खेत्तसंजोगे ? खेत्तसंजोगे - भारहे एरवए हेमवए एरण्णवए हरिवस्सए रम्यवस्सए, पुव्वविदेहए अवरविदेहए, देवकुरुए उत्तरकुरुए, अहवा मागहए मालवए सोरट्ठए मरहट्ठए कोंकणए कोसलए । सेतं खेत्तसंजोगे ।
त्यादिगाथा, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपि सुगमानि, नवरं द्विपदं स्त्र्यादि, चतुष्पदं गवादि, बहुपदं कर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया । कहि ककुदं स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी वृषभ इति ।
परियर गाहा । परिकरबन्धेन विशिष्टनेपथ्यरचनालक्षणेन भटं शूरपुरुषं जानीयात् लक्षयेत् । तथा निवसनेन विशिष्टरचनारचितपरिधानलक्षणेन महिलां स्त्रीम्, जानीयादिति सर्वत्र सम्बध्यते । धान्यद्रोणस्य पाक: स्विन्नतारूपस्तं च तन्मध्याद् गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयात् । एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयात् अयमत्राभिप्राय: - यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भट- महिला - पाक - कविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति । इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतया प्रवृत्ताद् गौणनाम्नो भिद्यत इति ८ ।
से किं तं संजोएणमित्यादि । संयोगः सम्बन्धः, स चतुर्विधः प्रज्ञप्तः | द्रव्यसंयोग इत्यादि सर्वं सूत्रसिद्धमेव । नवरं सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि । अचित्तद्रव्यसंयोगेन छत्रमस्यास्तीति छत्रीत्यादि । मिश्रद्रव्यसंयोगेन हलेन व्यवहरतीति हालिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org