________________
श्रीअनुयोगद्वारसूत्रम् [सू०२७८-२८३]
(सू० २७८) से किं तं कालसंजोगे? कालसंजोगे- सुसमसुसमए सुसमए सुसमदूसमए दूसमसुसमए दूसमए दूसमदूसमए, अहवा पाउसए वासारत्तए सरदए हेमंतए वसंतए गिम्हए। से तं कालसंजोगे।
(सू० २७९) से किं तं भावसंजोगे ? भावसंजोगे दुविहे पण्णत्ते । तंजहा- पसत्थे य १, अपसत्थे य २।
(सू० २८०) से किं तं पसत्थे ? पसत्थे- नाणेणं नाणी, दंसणेणं दंसणी, चरित्तेणं चरित्ती । सेतं पसत्थे ।
(सू० २८१) से किं तं अपसत्थे ? अपसत्थे- कोहेणं कोही, माणेणं माणी, मायाए मायी, लोभेणं लोभी । सेतं अपसत्थे । सेतं भावसंजोगे । सेतं संजोगेणं ।
(सू० २८२) से किं तं पमाणेणं? पमाणेणं चउव्विहे पण्णत्ते। तंजहा - णामप्पमाणे १, ठवणप्पमाणे २, दव्वप्पमाणे ३, भावप्पमाणे ४ ।
(सू० २८३) से किं तं नामप्पमाणे ? नामप्पमाणे- जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणे त्ति णामं कज्जति । सेतं णामप्पमाणे। इत्यादि, अत्र हलादीनामचेतनत्वाद् बलीवीनां तु सचेतनत्वान्मिश्रद्रव्यता भावनीया। क्षेत्रसंयोगाधिकारे भरते जातो भरते वाऽस्य निवास इति तत्र जात: (पा० ४।३।२५) सोऽस्य निवास: (पा० ४।३।८९) इति वाऽण्प्रत्यये भारत: । एवं शेषेष्वपि भावना कार्या । कालसंयोगाधिकारे सुषमसुषमायां जात इति सप्तमीपञ्चम्यन्ते जनेर्ड: (कातन्त्र० ४।३।९१) इति डप्रत्यये सुषमसुषमज:, एवं सुषमजादिष्वपि भावनीयम् । भावसंयोगाधिकारे भाव: पर्याय:, स च द्विधा प्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादिः । शेष सुगमम् । इदमपि संयोगप्रधानतया प्रवृत्तत्वाद् गौणाद्भिद्यत इति ९ ।
___ से किं तं पमाणेणमित्यादि । अत्रोत्तरं पमाणे चउविहे इत्यादि । प्रमीयते परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणं नाम-स्थापना-द्रव्य-भावस्वरूपं चतुर्विधम् ।
अथ किं तन्नामप्रमाणम् ? नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणम्, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्राय:, एवमन्यत्रापि भावनीयम् । अत्रोत्तरमुच्यते- यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा यत् प्रमाणमिति नाम क्रियते तन्नामप्रमाणम्, न तत् स्थापना-द्रव्य-भावहेतुकम्, अपि तु नाममात्रविरचनमेव तत्र हेतुरिति तात्पर्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org