________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २८४) से किं तं ठवणप्पमाणे ? ठवणप्पमाणे सत्तविहे पण्णत्ते । तंजहा - णक्खत्त-देवय-कुले पासंड-गणे य जीवियाहेउं । आभिप्पाउयणामे ठवणानामं तु सत्तविहं ॥८५॥
(सू० २८५) से किं तं नक्खत्तणामे ? नक्खत्तणामे- कत्तियाहिं जाए कत्तिए कत्तिदिण्णे कत्तिधम्मे कत्तिसम्मे कत्तिदेवे कत्तिदासे कत्तिसेणे कत्तिरक्खिए। रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहिणिरक्खिए। एवं सव्वणक्खत्तेसु णामा भाणियव्वा । एत्थ संगहणिगाहाओ -
कत्तिय १ रोहिणि २ मिगसिर ३ अद्दा ४ य पुणव्वसू ५ य पुस्से ६ य । तत्तो य अस्सिलेसा ७ मघाओ ८ दो फग्गुणीओ य ९-१० ॥८६॥ हत्थो ११ चित्ता १२ सादी १३ (य) विसाहा १४ तह य होइ अणुराहा १५ । जेट्ठा १६ मूलो १७ पुव्वासाढा १८ तह उत्तरा १९ चेव ॥८७।। अभिई २० सवण २१ धणिट्ठा २२ सतिभिसदा २३ दो य होंति भद्दवया २४-२५ । रेवति २६ अस्सिणि २७ भरणी २८ एसा नक्खत्तपरिवाडी ॥८८॥ सेत्तं नक्खत्तनामे।
(सू० २८६) से किं तं देवयणामे ? देवयणामे- अग्गिदेवयाहिं जाते अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए । एवं पि सव्व
अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणं सप्तविधमित्यादि । नक्खत्त गाहा। इदमत्र हृदयम् - नक्षत्र-देवता-कुल-पाषण्ड-गणादीनि वस्तून्याश्रित्य यत् कस्यचिन्नामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुन: यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि ( )इत्यादिना पूर्व परिभाषितस्वरूपा, सैव प्रमाणम्, तेन हेतुभूतेन नाम सप्तविधं भवति । ___ तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति - कृत्तिकासु जात: कार्तिकः, कृत्तिकाभिर्दत्त: कृत्तिकादत्त:, एवं कृत्तिकाधर्म: कृत्तिकाशर्म: कृत्तिकादेव: कृत्तिकादास: कृत्तिकासेन: कृत्तिकारक्षित:, एवमन्यान्यपि रोहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या । तत्र सर्वनक्षत्रसङ्ग्रहार्थं कत्तिय-रोहिणीत्यादि गाथात्रयं सुगमम्, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्विन्यादिक्रममुत्सृज्येत्थमेव पठितवानिति। ___एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातार: क्रमेणाग्न्यादयोऽष्टाविंशतिरेव देवताविशेषा भवन्त्यत: कृत्तिकादिनक्षत्रे जातस्य कश्चिदिच्छादिवशतस्तदधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह- से किं तं देवयाणामे इत्यादि । अग्निदेवतासु जात: आग्निकः, एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org