________________
१९७
श्रीअनुयोगद्वारसूत्रम् [सू०२८७-२९०] नक्खत्तदेवतनामा भाणियव्वा । एत्थं पि य संगहणिगाहाओ, तंजहा -
अग्गि १ पयावइ २ सोमे ३ रुद्दे ४ अदिती ५ बहस्सई ६ सप्पे ७ । पिति ८ भग ९ अज्जम १० सविया ११ तट्ठा १२ वायू १३ य इंदग्गी १४ ॥८९॥ मित्तो १५ इंदो १६ णिरिती १७ आऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ । वसु २२ वरुण २३ अय २४ विवद्धी २५ पूसे २६ आसे २७ जमे २८ चेव ॥९०॥ से तं देवयणामे।
(सू० २८७) से किं तं कुलनामे ? कुलनामे- उग्गे भोगे राइण्णे खत्तिए इक्खागे णाते कोरव्वे । सेत्तं कुलनामे ।
(सू० २८८) से किं तं पासंडनामे ? पासंडनामे समणए पंडरंगए भिक्खू कावालियए तावसए परिव्वायगे । सेतं पासंडनामे ।
(सू० २८९) से किं तं गणनामे ? गणनामे- मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए । सेतं गणनामे ।
(सू० २९०) से किं तं जीवियाहेडं ? जीवियाहेउं- अवकरए उक्कुरुडए उज्झियए कज्जवए सुप्पए । सेतं जीवियाहेडं । मग्निदत्तादीन्यपि । नक्षत्रदेवतानां सङ्ग्रहार्थम् अग्गीत्यादि गाथाद्वयम् । तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्नि:, रोहिण्या: प्रजापतिः, एवं मृगशिर:प्रभृतीनां क्रमेण सोमो रुद्र: अदिति: बृहस्पति: सर्पः पितृ भग: अर्यमा सविता त्वष्टा वायु: इन्द्राग्निः मित्र: इन्द्रः निर्ऋति: अम्भ: विश्व: ब्रह्मा विष्णु: वसुः वरुण: अज: विवर्द्धि:, अस्य स्थानेऽन्यत्र अहिर्बुध्न: पठ्यते, पूषा अश्वि: यमश्चैवेति ।
से किं तं कुलनामे इत्यादि । यो यस्मिन्नुग्रादिकुले जातस्तस्य तदेवोग्रादिकुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः।
से किं तं पासंडणामे इत्यादि । इह येन यत् पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र निग्गंथ-सक्क-तावस-गेरुय-आजीव पंचहा समणा (पिण्डनि० गा० ४४५) इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, एवं नैयायिकादिपाषण्डमाश्रिता: पाण्डुराङ्गादयो भावनीया: । नवरं भिक्षुर्बुद्धदर्शनाश्रितः ।
से किं तं गणनामे इत्यादि । इह मल्लादयो गणा: तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनानामोच्यते इति मल्ले मल्लदिण्णे इत्यादि ।
से किं तं जीवियाहेतुमित्यादि । इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवैचित्र्याज्जातमात्रमपि किञ्चिदपत्यं जीवननिमित्तमवकरादिष्वस्यति, तस्य चाऽवकरकः उत्कुरुटक इत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org