SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २९१) से किं तं आभिप्पाउयनामे ? आभिप्पाउयनामे- अंबए निंबए बबूलए पलासए सिणए पिलुयए करीरए। सेतं आभिप्पाउयनामे । सेतं ठवणप्पमाणे । (सू० २९२) से किं तं दव्वप्पमाणे ? दव्वप्पमाणे छव्विहे पण्णत्ते । तंजहा - धम्मत्थिकाए जाव अद्धासमए । सेतं दव्वप्पमाणे । (सू० २९३) से किं तं भावप्पमाणे ? भावप्पमाणे चउविहे पण्णत्ते । तंजहा - सामासिए १, तद्धितए २, धातुए ३, निरुत्तिए ४ । (सू० २९४) से किं तं सामासिए ? सामासिए सत्त समासा भवंति । तंजहा - दंदे १ य बहुव्वीही २ कम्मधारए ३ दिग्गु ४ य ।। तप्पुरिस ५ अव्वईभावे ६ एक्कसेसे ७ य सत्तमे ॥९१॥ यन्नाम क्रियते तज्जीविकाहेतो: स्थापनानामाख्यायते । सुप्पए त्ति य: सूर्पे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते । शेषं प्रतीतम् । से किं तं आभिप्पाइयनामे इत्यादि । इह यत् वृक्षादिषु प्रसिद्धम् अम्बको निम्बक इत्यादि नाम देशरूढ्या स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिकं स्थापनानामेति भावार्थः । तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति । से किं तं दव्वपमाणे इत्यादि । अयमत्र भावार्थ:- धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि, द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम् । अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेत्, उच्यताम्, को दोष: ? अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्यपदेशताया ९९अदुष्टत्वात् । एवमन्यत्रापि यथासम्भवं वाच्यमिति । से किं तं भावपमाणे इत्यादि । भावो युक्तार्थत्वादिको गुणः, स एव तद्द्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणम्, तेन निष्पन्नं तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवतीत्यत्र परमार्थः । ___ तत्र से किं तं सामासिए इत्यादि, द्वयोर्बहूनां वा पदानां समसनं संमीलनं समासस्तेन निर्वृत्तं सामासिकम्, समासाश्च द्वन्द्वादय: सप्त । तत्र समुच्चयप्रधानो द्वन्द्वः, दन्ताश्चौष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरमिति, प्राण्यङ्गत्वात् समाहार:, वस्त्रपात्रमित्यादौ त्वप्राणिजातित्वादश्व ९८. स्वाभिप्रायानुरोधत इत्यादि । ततश्च डित्थ-डवित्थादि गुणनिरपेक्षनामाप्यभिप्रायिकमेव ज्ञेयम्, 'अयं डित्थशब्देनोच्यतामि'त्याद्यभिप्रायेण तस्य स्थापितत्वाद् । ९९. अदुष्टत्वादिति । तथाप्येतेषामाभिप्रायिकत्वं तु नास्त्येव, अनादित्वेन स्थापनाऽसम्भवात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy