________________
श्रीअनुयोगद्वारसूत्रम् [सू०२९५-२९८]
(सू० २९५) से किं तं दंदे समासे ? दंदे समासे-दन्ताश्च ओष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरम्, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वश्च महिषश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलम् । सेतं दंदे समासे ।
(सू० २९६) से किं तं बहुव्रीहिसमासे ? बहुव्रीहिसमासे- फुल्ला जम्मि गिरिम्मि कुडय-कलंबा सो इमो गिरी फुल्लियकुडय-कलंबो । से तं बहुव्रीहिसमासे ।
(सू० २९७) से किं तं कम्मधारयसमासे ? कम्मधारयसमासे- धवलो वसहो धवलवसहो, किण्हो मिगो किण्हमिगो, सेतो पटो सेतपटो, रत्तो पटो रत्तपटो । से तं कम्मधारयसमासे।
(सू० २९८) से किं तं दिगुसमासे ? दिगुसमासे- तिण्णि कडुगा तिकडुगं, तिण्णि महुराणि तिमहुरं, तिण्णि गुणा तिगुणं, तिण्णि पुरा तिपुरं, तिण्णि सरा तिसरं, तिण्णि पुक्खरा तिपुक्खरं, तिण्णि बिंदुया तिबिंदुयं, तिण्णि पहा तिपहं, पंच णदीओ पंचणदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगामं, दस पुरा दसपुरं । सेतं दिगुसमासे। महिषमित्यादौ पुन: शाश्वतिकवैरित्वात्, एवमन्यान्यप्युदाहरणानि भावनीयानि । अन्यपदार्थप्रधानो बहुव्रीहिः, पुष्पिता: कुटज-कदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटज-कदम्बः । तत्पुरुषः समानाधिकरण: कर्मधारय: (पा० १।२।४२), स च धवलश्चासौ वृषभश्च धवलवृषभ इत्यादि । सङ्ख्यापूर्वो द्विगु: (पा० २।१।५२) , त्रीणि कटुकानि समाहृतानि त्रिकटुकम् । एवं त्रीणि मधुराणि समाहृतानि त्रिमधुरम्, पात्रादिगणे दर्शनादिह पञ्चपूलीत्यादिवत् स्त्रियामीप्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि भावनीयानि। द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः, तत्र तीर्थे काक इवास्ते १०°तीर्थकाकः, ध्वाङ्केण क्षेपे (पा० २।१।४२)इति सप्तमीतत्पुरुषः, शेष प्रतीतम् । पूर्वपदार्थप्रधानोऽव्ययीभावः, तत्र ग्रामस्य अनु समीपेन मध्येन वाऽशनिर्गता अनुग्रामम्, एवं नद्या: समीपेन मध्येन वा अनुनदीत्याद्यपि भावनीयम् । सरूपाणामेकशेष एकविभक्तौ (पा० १।२।६४) इत्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेकशेष: समासो भवति, सति समासे एक: शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोर्खप्तानां चार्थे वर्तते, अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात् तस्मात् द्विवचनं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाद् बहुवचनम्, यथा पुरुषश्च ३ पुरुषाः, एवं बहूनां लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४ पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम् ।
१००. तीर्थकाक इति । अन्त्यदीपकन्यायेनायं तत्पुरुषसमासे दृष्टान्तो ज्ञेयः, द्वितीयादिविभक्त्यन्तपदसमासेषु सप्तमीतत्पुरुषस्यान्त्यत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org