SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २९९) से किं तं तप्पुरिसे समासे ? तप्पुरिसे समासे- तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वणमयूरो। सेतं तप्पुरिसे समासे। (सू० ३००) से किं तं अव्वईभावे समासे? अव्वईभावे समासे- अणुगामं अणुणदीयं अणुफरिहं अणुचरियं । सेतं अव्वईभावे समासे । (सू० ३०१) से किं तं एगसेसे समासे ? एगसेसे समासे- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे सालिणो जहा बहवे सालिणो तहा एगो साली । सेतं एगसेसे समासे । सेतं सामासिए। (सू० ३०२) से किं तं तद्धियए ? तद्धियए - कम्मे १ सिप्प २ सिलोए ३ संजोग ४ समीवओ ५ य संजूहे ६ । इस्सरिया ७ऽवच्चेण ८ य तद्धितणामं तु अट्ठविहं ॥१२॥ (सू० ३०३) से किं तं कम्मणामे ? दोस्सिए सोत्तिए कप्पासिए सुत्तवेतालिए भंडवेतालिए कोलालिए णरदावणिए । सेतं कम्मनामे । इत: सूत्रमनुस्रियते- जहा एगो पुरिसो त्ति यथैकः पुरुषः, एकवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेष:, तहा बहवे पुरिसत्ति तथा बहव: पुरुषा:, बहुवचनान्त: पुरुषशब्द इत्यर्थः, एकशेष समासे सति बह्वर्थवाचक इति शेष:, यथा चैकशेषे समासे बहुवचनान्त: पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेष: । एतदुक्तं भवति- यथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्त: पुरुषशब्दो बहूनर्थान् वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तत्व-बहुवचनान्तत्वयोर्विशेष:, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति। एवं कार्षापण-शाल्यादिष्वपि भावनीयम् । अयं च समासो द्वन्द्वविशेष एवेष्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन । गतं सामासिकम् । से किं तं तद्धितए इत्यादि । तद्धिताज्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितजत्वं सिद्धं भवति । कम्मे गाहा पाठसिद्धा, नवरं श्लोक: श्लाघा, संयूथो ग्रन्थरचना, एते च कर्मशिल्पादयोऽर्थास्तद्धितप्रत्ययस्योत्पित्सोर्निमित्तीभवन्तीत्येतद्भेदात्तद्धितजं नामाष्टविधमुच्यत इति भावः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy