________________
श्रीअनुयोगद्वारसूत्रम् [सू०३०४-३०८]
२०१
(सू० ३०४) से किं तं सिप्पनामे ? सिप्पनामे वत्थिए (तंतिए) तुण्णाए तंतुवाए पटकारे अहे वरुडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिकारे । सेतं सिप्पनामे ।
( सू० ३०५ ) से किं तं सिलोयनामे ? सिलोयनामे- समणे माहणे सच्चतिही । सेतं सिलोयनामे ।
रणो
(सू० ३०६) से किं तं संजोगनामे ? संजोगनामे- रण्णो ससुरए, रण्णो सालए, सड्दुए, रण्णो जामाउए, रन्नो भगिणीवती । सेतं संजोगनामे ।
( सू० ३०७ ) से किं तं समीवनामे ? समीवनामे - गिरिस्स समीवे नगरं गिरिणगरं, विदिसाए समीवे णगरं वेदिसं, बेन्नाए समीवे नगरं बेन्नायडं, तगराए समीवे नगरं तगरायडं । सेतं समीवनामे |
( सू० ३०८ ) से किं तं संजूहनामे ? संजूहनामे- तरंगवतिकारे मलयवतिकारे अत्ताणुसट्टिकारे बिंदुकारे । से तं संजूहनामे |
1
तत्र कर्मतद्धितजं दोसिए सोत्तिए इत्यादि, दूष्यं पण्यमस्येति दौषिकः, सूत्रं पण्यमस्त सौत्रिकः, शेषं प्रतीतम्, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिकः । को (क) लालाि मृद्भाण्डानि पण्यमस्येति कौलालिक: । अत्र क्वापि तणहारए इत्यादिपाठो दृश्यते, तत्र कश्चिदाहनन्वत्र तद्धितप्रत्ययो न कश्चिदुपलभ्यते, तथा वक्ष्यमाणेष्वपि तुन्नाए तंतुवाए इत्यादिषु नायं दृश्यते, तत् किमित्येवंभूतनाम्नामिहोपन्यासः ? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते । यदि तद्धितोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धित कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः । अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवं जानीया:- तद्धितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति ।
अथ शिल्पतद्धितनामोच्यते - वस्त्रं शिल्पमस्येति वास्त्रिकः, तन्त्रीवादनं शिल्पमस्येति तान्त्रिक:, तुन्नाए तंतुवाए इत्यादि प्रतीतम् । आक्षेप परिहारौ उक्तावेव । यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम् ।
अथ श्लाघातद्धितनामोच्यते - समणे इत्यादि । श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढानि, अतोऽस्मादेव सूत्रनिबन्धात् श्लाघार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्धितनाम - राज्ञः स्वसु ( श्वशु) र इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्धितनामता, चित्रं च पूर्वगतं शब्दप्राभृतम्, अप्रत्यक्षं च न:, अतः कथमिह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org