________________
२०२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३०९) से किं तं ईसरियनामे ? ईसरियनामे- राईसरे तलवरे माडंबिए कोडुबिए इन्भे सेट्ठी सत्थवाहे सेणावई । सेतं ईसरियनामे ।
(सू० ३१०) से किं तं अवच्चनामे ? अवच्चनामे- तित्थयरमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणिमाया वायगमाया। सेतं अवच्चनामे । सेतं तद्धिते ।
(सू० ३११) से किं तं धाउए ? धाउए- भू सत्तायां परस्मैभाषा(ष:), एध वृद्धौ, स्पर्द्ध संह(घ?)र्षे, गाई प्रतिष्ठा-लिप्सयोर्ग्रन्थे च, बाधृ लोडने पा०धा० १-५] । सेतं धाउए।
(सू० ३१२) से किं तं निरुत्तिए ? निरुत्तिए- मह्यां शेते महिष:, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसति मुसलं, कपिरिव लम्बते त्थच्च करोति कपित्थं, चिदिति करोति खल्लं च भवति चिखल्लं, ऊर्ध्वकर्ण: उलूकः, खस्य माला मेखला । सेतं निरुत्तिए। सेतं भावप्पमाणे । से तं पमाणनामे । सेतं दसनामे । सेतं नामे । भावनास्वरूपमस्मादृशैः सम्यगवगम्यते ?
___ समीपतद्धितनाम गिरिसमीपे नगरं गिरिनगरम्, अत्र अदूरभवश्च (पा० ४।२।७०) इत्यण न भवति, गिरिनगरमित्येव प्रतीतत्वात् । विदिशाया अदूरभवं नगरं वैदिशम्, अत्र तु अदूरभवश्च (पा० ४।२।७०) इत्यण् भवत्येव, इत्थमेव रूढत्वादिति ।
संयूथतद्धितनाम तरंगवतिकार इत्यादि, तद्धितनामता चेहोत्तरत्र च पूर्ववद्भावनीया।
ऐश्वर्यतद्धितनाम- राईसरे इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यम्, राजेश्वरादिशब्दार्थस्त्विहैव पूर्वं व्याख्यात एव ।
अपत्यतद्धितनाम- तित्थयरमाता इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशि(शे?)ष्यते, अतस्तीर्थकरादिभिर्मातरो विशेषिताः । तद्धितनामत्वभावना तथैव । गतं तद्धितनाम ।
अथ धातुजमुच्यते- से किं तं धाउए इत्यादि, भूरयं परमस्मैपदी धातु: सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नामेति, एवमन्यत्रापि । ___ अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं भणनं निरुक्तम्, तत्र भवं नैरुक्तम्, तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव । तदेवमुक्तं नैरुक्तं नाम । तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थित प्रमाणनाम । तत्समर्थने च समापितं गौणादिकं दशनाम। एतैरपि च दशनामभि: सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेदमुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम्, अत: सेतं निरुत्तिए इत्यादि पञ्च निगमनानि । नामद्वारं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org