________________
७७
श्रीअनुयोगद्वारसूत्रम् [सू०१०२,१०३] अवत्तव्वयाइं च ८, एए अट्ठ भंगा। एवं सव्वे वि छव्वीसं भंगा २६ । सेतं नेगम-ववहाराणं भंगसमुक्कित्तणया।
(सू० १०२) एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं? एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरइ ।
(सू० १०३) से किं तं णेगम-ववहाराणं भंगोवदंसणया ? णेगम-ववहाराणं भंगोवदंसणया- तिपदेसिए आणुपुव्वी १, परमाणुपोग्गले अणाणुपुव्वी २, दुपदेसिए वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति । सेतमित्यादिनिगमनम् ।
उक्ता भङ्गोत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराह- एताए णमित्यादि । एतया भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति । अत्रोत्तरमाह - एताए णमित्यादि, एतया भङ्गसमुत्कीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तम्, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते । तच्च सूत्रे समुत्कीर्तित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वात्, अतो युक्तं भङ्गकसमुत्कीर्तनतायां भङ्गोपदर्शनताप्रयोजनम् । अत्राऽऽहननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादे: कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्युत्कीर्तयिष्यते, तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यम्, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गत: पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोष:, यथा हि संहिता च पदं चैव ( ) इत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते ३१तद्वदत्रापीति भावः ।
अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्नपूर्वक तामेव निरूपयितुमाह - से किं तमित्यादि। तिपदेसिए
३१. तद्वदत्रापीति भावः। यद्वा भङ्गकसमुत्कीर्तनद्वारे शब्दतो यावन्तो भङ्गकाः सम्भवन्ति तावतां सर्वेषां समुत्कीर्तनं क्रियते। न चैतावतैव तेषां सर्वेषां वस्तुतः सम्भवोऽपि सम्भवत्येवेति वक्तुं पार्यते । कस्मिंश्चिद्विषये शब्दतः समुत्कीर्तितानामपि केषाञ्चिद्भङ्गकानां वस्तुतः सम्भवो नास्त्यपि। यथा चतुर्थे कर्मग्रन्थे औपशमिकादीनां पञ्चानां भावानां द्विकादिसंयोगेन निष्पन्नानां सान्निपातिकभावानां शब्दतः षड्विंशतिर्लभ्यते। अतः भङगकसमुत्कीर्तनद्वारे षड्विंशतेः समुत्कीर्तनं भवति। किन्तु भङ्गोपदर्शनतायां तु षण्णामेव भङ्गकानामुपदर्शनम्, वस्तुतः षण्णामेव सम्भवात् । अतो यदि भङ्गसमुत्कीर्तनताद्वारं त्यज्यत एव तदा शेषाणां विशंतीनामपि भङ्गानां समुत्कीर्तनं तेषाञ्च वस्तुतो नास्तित्वप्रतिपादनमसम्भव्येव स्यात्। अतो द्वयोरपि द्वारयोरुपन्यास आवश्यक इत्यपि समाधिरत्रानुसन्धेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org