________________
२५८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४०९) बेंदिय-तेंदिय-चउरिदियाणं जहा पुढवीकाइयाणं । (सू० ४१०) पंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहा वाउकाइयाणं ।
(सू० ४११) मणूसाणं जाव गो० ! पंच सरीरा पन्नत्ता । तं० ओरालिए वेउव्विए आहारए तेयए कम्मए । कियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति । अत्रोत्तरम्- गोयमा ! दुविहेत्यादि, औदारिकशरीरसङ्ख्यायां पृष्टायां बद्ध-मुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवम्, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य । इदं च बद्ध-मुक्तौदारिकादिप्रमाणं क्वचिद् द्रव्येण अभव्यादिना वक्ष्यति, क्वचित्तु क्षेत्रेण श्रेणि-प्रतरादिना, क्वचित्तु कालेन समया-ऽऽवलिकादिना, भावेन तु न वक्ष्यति, १११तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात् ।
तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं निरूपयितुमाह- तत्थ णं जे ते बद्धेल्लया इत्यादि, इह नारक-देवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्मोदयाद् यानि बद्धानि गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत् तानि सामान्यत: सर्वाण्यसङ्ख्येयानि । न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि- असंखेजाहिमित्यादि, प्रतिसमयं यद्येकैकं शरीरमपह्रियते तदा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभि: सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्त: समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः । तदेतत् कालतो मानमुक्तम्, अथ क्षेत्रतस्तदाह- खेत्तओ असंखेजा लोग त्ति, इदमुक्तं भवति- प्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकैकं शरीरं व्यवस्थाप्यते तद्यसङ्ख्येया लोकास्तैर्धियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्खयेयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ? केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति । आह- भवत्वेवम्, किन्त्वौदारिकशरीरिणां मनुष्य-तिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न
१११. तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वादिति । यद्वा भावस्य नियतमानत्वाभावादित्यपि हेतुरत्र ज्ञेयः । अयम्भावः-यथाऽभव्यजीवानां सङ्ख्या नियता, श्रेणि-प्रतरादिगताकाशप्रदेशानां सङ्ख्या नियता, आवलिकादिगतसमयानां च सङ्ख्या नियता, न तथा कश्चिदपि भावः प्रसिद्धो यो नियतमानः स्याद्येन च कस्यचिदपि प्रमाणस्य निरूपणं शक्यं स्याद् । न ह्यनियतमानेनामुकग्रामनिवासिजनादिलक्षणेन द्रव्येण विन्ध्यपर्वतादिक्षेत्रादिना वाऽपि कस्यचिदपि प्रमाणं निरूपयितुं शक्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org