________________
२५९
श्रीअनुयोगद्वारसूत्रम् [सू०४१२,४१३]
(सू० ४१२) वाणमंतराणं जोइसियाणं वेमाणियाणं जहा नेरइयाणं, वेउब्विय-तेयगकम्मगा तिन्नि तिनि सरीरा भाणियव्वा ।
(सू० ४१३) केवतिया णं भंते ! ओरालियसरीरा पण्णत्ता ? गो० ! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजा लोगा । तत्थ णं भवन्ति येनासङ्खयेयान्येवोक्तानि ? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ता:, किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्ख्येयान्येवेति ।
तत्थ णं जे ते मुक्केल्लयेत्यादि, भवान्तरसङ्क्रान्ती मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तभेदत्वान्न ज्ञायते कियदप्यनन्तकमिदम्, तत: कालेन विशेषयति- प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः । अथ क्षेत्रतो विशिनष्टि- खेत्तओ अणंता लोग त्ति, क्षेत्रत: क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां य: प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः। द्रव्यतो नियमयति- अभवसिद्धिएहिमित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनीति । आह- यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते तत् किमेतानि तत्तुल्यानि भवन्ति ? नैतदेवम्, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे निर्दिष्टानि स्युः, न चैवम्, तत: प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति प्रतिपत्तव्यमिति । पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि- किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ? यद्याद्य: पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापर: पक्षस्तर्हि स कश्चित् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया ११२अनन्तशः परिणमय्य न मुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ___ ११२. अनन्तशः परिणमय्यति । नन कुत एतन्निश्चय इति चेत् ? पुद्गलपरावर्तलक्षणात् तन्निर्णय इति जानीहि । तथाहि- एको जीवो यावता कालेन सर्वपुद्गलास्तिकायगतसर्वपुद्गलानौदारिकशरीररूपतया परिणमय्य मुञ्चति स काल औदारिकद्रव्यपुद्गलपरावर्त उच्यते । यतोऽतीतकाल एवंविधाश्चानन्ताः पुद्गलपरावर्ता अतीताः, अतो निश्चीयते यत्- ‘स कश्चित्पुद्गलो नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतयाऽनन्तशः परिणमय्य न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org