________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
मुलगा ते णं अणंता अनंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अनंतभागो । ( सू० ४१४) केवतिया णं भंते ! वेउव्वियसरीरा पं० ? गोतमा ! दुविहा पण्णत्ता । ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वात्, अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि 'ग्रामो दग्धः, पटो दग्धः' इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितम् । तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतोऽप्युपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति १ ।
अथौघत एव वैक्रियसङ्ख्यामाह - केवइया णं भंते वेउव्वियेत्यादि । तत्र नारक - देवानामेतानि मुक्तः' इति । ननु सर्वपुद्गलास्तिकायगतसर्वपुद्गलानां सर्वजीवेभ्योऽनन्तानन्तगुणत्वं वृत्तावप्यग्रे कथयिष्यते। ततश्च कथमेकस्याप्येवंविधस्य पुद्गलपरावर्तस्य सम्पूर्णेऽप्यतीतकाले सम्भवः ? अयम्भावः-पृच्छासमयं यावदेकेन जीवेन गृहीताः पुद्गलाः कियन्त इति प्रापणार्थं 'प्रतिसमयं गृह्यमाणपुद्गलराशिप्रमाणेन गुण्यमानेऽतीतकालगतसमयराशौ यत्प्राप्यते तत्प्रमाणाः' इति करणमुपयुज्यते । अत्र च प्रतिसमयं गृह्यमाणपुद्गलराशिरभव्यजीवद्रव्यसङ्ख्यातो-ऽनन्तगुणप्रमाणः सिद्धजीवद्रव्यसङ्ख्यातश्चानन्तभागप्रमाणो वर्तते । तथाऽतीतकालगतसमयराशिः षण्मासगतसमयप्रमाणाऽसङ्ख्येयगुणितसिद्धजीवद्रव्यसङ्ख्याया न्यूनो भवति, मुक्तिप्राप्तेरुत्कृष्टान्तरस्य षण्मासत्वात् । ततश्च प्रथमराशि (सिद्ध - अनंत ) गुणितो द्वितीयराशिः (सिद्ध x असङ्ख्य ) सिद्धजीववर्गापेक्षया न्यूनः प्राप्यत इति स्पष्टम् । अयञ्च राशिर्न सर्वजीवेभ्योऽनन्तानन्तगुणः, अपि त्वनन्तभागवर्त्येवेत्यपि स्पष्टमेव । इत्थञ्चोपरि यादृशः पुद्गलपरावर्त उक्तः, तादृशो नैकोऽप्यद्य यावद् व्यतीत इति सिद्धम्, सर्वपुद्गलास्तिकायगतसर्वपुद्गलानन्तभागवर्तिपुद्गलानामेवैकेन जीवेन पृच्छासमयं यावद् गृहीतत्वात् । ननु शास्त्रे त्वनन्ता पुद्गलपरावर्ता व्यतीता इति श्रूयते । सत्यं, अत एव पुद्गलपरावर्तस्य या परिभाषाऽस्माभिरवबुध्यते तदन्यैव काचित्परिभाषा वस्तुतो भवेदिति मन्तव्यम् । 'साच का ?' इति निर्णेतुं न वयं समर्थाः, बहुश्रुता एवात्र प्रक्रमे प्रष्टव्याः ।
२६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org