________________
श्रीअनुयोगद्वारसूत्रम् [सू०४१५,४१६]
२६१ तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पतरस्स असंखेजइभागो । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केल्लया तहा एते वि भाणियव्वा ।
(सू० ४१५) केवइया णं भंते ! आहारगसरीरा पं० ? गोयमा ! दुविहा पं० । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिया अत्थि सिया नत्थि, जइ अत्थि जहण्णेणं एगो वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओरालियसरीरस्स तहा भाणियव्वा ।
(सू० ४१६) केवतिया णं भंते ! तेयगसरीरा पण्णत्ता ? गोयमा! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ सिद्धेहिं अणंतगुणा सर्वदैव बद्धानि संभवन्ति, मनुष्य-तिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, तत: सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्येयानि लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशिस्तत्सङ्ख्यानि भवन्ति । मुक्तानि यथौदारिकाणि तथैव २ ।
अथौघत एवाहारकाण्याह- केवइया णं भंते ! आहारगेत्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यत: समयम् उत्कृष्टतस्तु षण्मासान् यावदभिहितम्, अत उक्तम्- बद्धानि कदाचित् सन्ति, कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वम्, द्विप्रभृत्या नवभ्य: समयप्रसिद्ध्या पृथक्त्वमुच्यते। मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम्
तथैव तैजसान्याह- केवइया णं भंते तेयगेत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि, द्रव्यत: सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् । नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्य-तिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं तु चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org