________________
२६२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत सव्वजीवाणं अणंतभागूणा । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा, दव्वओ सव्वजीवेहिं अणंतगुणा जीववग्गस्स अणंतभागो।
(सू० ४१७) केवइया णं भंते ! कम्मयसरीरा पन्नत्ता ? गो० दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा । संसारिणश्च जीवा: सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अत: सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि । मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यत: सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिर्जीवराशिनैव गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ? नेत्याह- जीववग्गस्स अणंतभागो त्ति, सर्वजीवा: सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसङ्ख्यः सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्ततमे कल्पनया शततमे भागे एतानि वर्तन्ते, अत: सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि । किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति? उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्ख्येयकालादूर्ध्वं तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अत: प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि ११३यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते, नाधिकानीत्यलमतिविस्तरेण ४।
केवइया णं भंते ! कम्मयेत्यादि, तैजस-कार्मणयोः समानस्वामिकत्वात् सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति ५ । तदेवमोघत: पञ्चापि शरीराण्युक्तानि ।
११३. यथोक्तसङ्ख्यान्येवैतानीत्यादि । सङ्ख्याशास्त्रानुसारेणायमत्र हेतु यः । एकेन जीवेन मुक्तानि तैजसान्यनन्तभेदैर्यदा भिद्यन्ते तदाऽपि सिद्धजीवेभ्योऽनन्तभागवर्तिन्येव भवन्ति, उत्कृष्टतोऽप्येतावतामेव स्कन्धानां तत्र भावात् । किञ्च तान्युत्कृष्टतोऽप्यसङ्ख्येयकालं यावदेव समुदितानि प्राप्यन्ते, तदनन्तरं नियमात्परिणामान्तरासादनात् । ततश्च समुदितान्यपि तानि सिद्धजीवेभ्योऽनन्तभागवर्तिराशिप्रमाणान्येव प्राप्यन्ते, असङ्ख्येयगुणितस्यापि सिद्धजीवानन्तभागवर्तिराशेरेतावत्प्रमाणत्वाद् । ततश्च यद्येकेन जीवेन मुक्तानि तैजसानि शरीराण्येतावत्प्रमाणानि प्राप्यन्ते तर्हि देशोनसर्वजीवैर्मुक्तानि तानि कियन्ति प्राप्यन्ते ? इति त्रिराशिगणिते क्रियमाणे सिद्धजीवानन्तभागवर्तिराशिना गुण्यमानो देशोनसर्वजीवराशि ववर्गानन्तभागवर्तिराशितुल्य एव प्राप्यत इति स्पष्टम्, गुणकस्य सिद्धजीवानन्तभागवर्तिराशेर्जीवानन्तभागवर्तित्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org