________________
२६३
श्रीअनुयोगद्वारसूत्रम् [सू०४१८]
(सू० ४१८) (१) नेरइयाणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि। तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा ।
(२) नेरइयाणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, अहव णं अंगुलबितियवग्गमूलघणपमाणमेत्ताओ सेढीओ । तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा ।
साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह- नेरइयाणं भंते केवइया ओरालियसरीरेत्यादि । द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयम्, न सद्रूपेण, अत एवोक्तम्- तत्र यानि बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि त्वौघिकमुक्तौदारिकवद्वाच्यानि। वैक्रियशरीराणि तु बद्धान्येषामसङ्ख्येयानि, प्रतिनारकमेकैकवैक्रियसद्भावात्, नारकाणां चासङ्ख्येयत्वात् । तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि। क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति। ननु प्रतरासङ्ख्येयभागे असङ्ख्येययोजनकोटयोऽपि भवन्ति, तत् किमेतावत्यपि क्षेत्रे या नभ:श्रेणयो भवन्ति ता इह गृह्यन्ते ? नेत्याह- तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः विस्तरश्रेणिः, ज्ञेयेति शेष: । कियतीत्याह- अंगुलेत्यादि, अङ्गुलप्रमाणे प्रतरक्षेत्रे य: श्रेणिराशिस्तत्र किलासङ्ख्येयानि वर्गमूलानि तिष्ठन्त्यत: प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं गुणितं तथा च सति यावत्योऽत्र श्रेणयो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्य: श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति- अगुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश १६, द्वितीयं चत्वार: ४, चतुर्भि: षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येया: श्रेणयो मन्तव्या:, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या । अहव णमित्यादि, णमिति वाक्यालङ्कारे, अथवा अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः । अहव ण त्ति क्वचित् पाठः, स चैवं व्याख्यायतेअथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भाव:, समुदितो वाऽयं शब्दोऽथवाशब्दस्यार्थे वर्तते । तदेव प्रकारान्तरमाह- अंगुलबीयवग्गमूलघणेत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org