________________
२६४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(३) णेरइयाणं भंते ! केवइया आहारगसरीरा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि । तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा ।
(४) तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा ।
(सू० ४१९) (१) असुरकुमाराणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता? गो० ! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा ।
(२) असुरकुमाराणं भंते ! केवतिया वेउव्वियसरीरा पन्नत्ता ? गोतमा ! दुविहा पण्णत्ता । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेजतिभागो । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन: चतुःषष्टिलक्षणस्तत्प्रमाणा: तत्सङ्ख्या: श्रेणयोऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते, अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्ख्येयानां श्रेणीनां य: प्रदेशराशिरेतावत्सङ्ख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव, एवं च सति पूर्वं नारका: सामान्येनैवासङ्ख्येया उक्ता:, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्ख्येयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिण: सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्या: । मुक्तवैक्रियाणि मुक्तौदारिकवद् वाच्यानि। आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात् तद्बन्धस्य। ११४मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणा प्रतिपतितचतुर्दशपूर्वविदा नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः । तैजस-कार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि । ___ उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह- असुरकुमाराणं भंते ! इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि । वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्य: स्तोकत्वात् प्रस्तुतशरीराण्यपि स्तोकान्यतो विष्कम्भसूच्या विशेष: । सा चेयम्- तासि णं सेढीणं विक्खंभसूईत्यादि, तासाम् अनन्तरोक्तश्रेणीनां विष्कम्भसूचि: विस्तरश्रेणिरङ्गुलप्रथमवर्गमूलस्या
११४. मुक्तानि त्वित्यादि । अत्र 'कदाचित् सन्ति कदाचित्तु न' इत्येवं यन्न निरूपित तेनेदं निश्चीयते यत् ‘कृतोज्झिताहारकशरीराः प्रतिपतितचतुर्दशपूर्वविदः सर्वदैव प्राप्यन्त एव, न कदाचिदपि तेषां विरह' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org