________________
श्रीअनुयोगद्वारसूत्रम् [सू०४२०]
२६५ (३) असुरकुमाराणं भंते ! केवइया आहारगसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा ।
(४) तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । (५) जहा असुरकुमाराणं तहा जाव थणियकुमाराणं ताव भाणियव्वं ।
(सू० ४२०) (१) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । एवं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । पुढविकाइयाणं भंते ! केवइया वेउब्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं णत्थि । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । आहारगसरीरा वि एवं चेव भाणियव्वा । तेयग-कम्मगसरीराणं जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा । सङ्ख्येयभाग:। इदमुक्तं भवति- प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्य: श्रेणयो भवन्ति तासां यत् प्रथमवर्गमूलं तस्याप्यसङ्ख्येयभागे या: श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ११५ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति, इत्थमेव चैतत्, यत: प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ता:, किं पुन: समस्तनारकाणां केवलासुरकुमारा इति । आहारकाणि नारकवदेव । तैजस-कार्मणान्यत्रैवोक्तवैक्रियवदिति। एवं समानैव वक्तव्यता यावत् स्तनितकुमारा:।
पुढविकाइया णं भंते ! इत्यादि । औदारिकाणि बद्धानि मुक्तानि चात्रौधिकौदारिकवद् वाच्यानि, केवलं यदौघिकबद्धानामसङ्ख्येयलोकप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यम्, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्,अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः । वैक्रिया-ऽऽहारकाणि बद्धानि अमीषा न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु सम्भवन्ति, तानि तु मुक्तौघिकौदारिकवदभिधानीयानि । तैजस-कार्मणान्यत्रैवोक्तौदारिकवद् दृश्यानि । एवमप्कायिकतेज:कायिकेष्वपि सर्वं वाच्यम्। वायुषु तु वैक्रियकृतो विशेष: समस्ति, तदभिधानार्थमाहवाउकाइयाणं भंते ! इत्यादि, इहापि सर्वं पृथिवीकायिकवद् वाच्यम्, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येयानि लभ्यन्ते, तानि च प्रतिसमयमपह्रियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति तत्सङ्ख्यैः समयैरपहियन्ते, क्षेत्रपल्योपमासङ्ख्येयभागवर्तिप्रदेशराशितुल्यानि
११५. ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इत्यादि । जीवसमासाख्ये ग्रन्थे तु नारकापेक्षयाऽसुरकुमाराणामसङ्ख्येयगुणत्वं कथितमिति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org