________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(२) जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणियव्वा । (३) वाउकाइयाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गो० ! जहा पुढविकाइयाणं ओरालियसरीरा तहा भाणियव्वा । वाउकाइयाणं भंते ! केवतिया वेव्वियसरी पत्ता ? गो० ! दुविहा पं० । तं बद्धेल्लया य मुक्केल्लया । तथ जे ते बद्धेला ते णं असंखेज्जा समए समए अवहीरमाणा अवहीरमाणा पलिओ मस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरंति नो चेव णं अवहिया सिया | मुक्केल्लया जहा ओहिया ओरालियमुक्केल्लया । आहारयसरीरा जहा पुढविकाइयाणं वेउव्वियसरीरा तहा भाणियव्वा । तेयग-कम्मयसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा ।
(४) वणस्सइकाइयाणं ओरालिय- वेउव्विय- आहारगसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा । वणस्सइकाइयाणं भंते! केवइया तेयग-कम्मगसरीरा पण्णत्ता ? गो० ! जहा ओहिया तेयग- कम्मगसरीरा तहा वणस्सइकाइयाण वि तेयग - कम्मगसरीरा भाणियव्वा ।
२६६
भवन्तीत्यर्थः, नो चेव णं अवहिया सिय त्ति, परप्रत्यायनार्थं प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित् केनचिदित्थमपहियन्त इति भावः । ननु वायवः सर्वेऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, बादरा अपर्याप्ताः पर्याप्ताश्च । तत्राऽऽद्यरात्रिये प्रत्येकं ते असङ्ख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः, येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति ।
अत्र केचिन्मन्यन्ते - ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः । उक्तं च - अत्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कया णं भंते! जाव वायंति गोयमा ! जया णं वाउयाए आहारियं रीयति, जया णं वाउयाए उत्तरकिरियं रीयइ, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्टाए वाउयायं उदीरंति, तया णं ईसि जाव वायंति ( भगवतीसूत्र ५।२।१० ) । आहारियं रीयति त्ति रीतं रीतिः स्वभाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org