________________
श्रीअनुयोगद्वारसूत्रम् [सू०४२१]
२६७ (सू० ४२१) (१) बेइंदियाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गोतमा ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं से ढीणं विक्खंभसूयी असंखेजाओ जोयणकोडाकोडीओ असंखेजाइं सेढिवग्गमूलाई, बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लएहिं पयरं अवहीरइ असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेजइभागपडिभागेणं । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । वेउव्विय-आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केल्लया जहा ओरालियसरीरा ओहिया तहा भाणियव्वा । तेया-कम्मगसरीरा जहा एतेसिं चेव ओरालियसरीरा तहा भाणियव्वा ।
(२) जहा बेइंदियाणं तहा तेइंदियाणं चउरिदियाण वि भाणियव्वं। इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते गच्छति, यदा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरकिरियं ति उत्तरा उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते ।
तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि सर्वं पृथ्वीकायिकवद् वक्तव्यम्, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजस-कार्मणान्युक्तानि, अत्र तु वनस्पतीनां बहूनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजस-कार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि, ततो न स्वस्थानबद्धौदारिकतुल्यानि वक्तव्यानि, किन्तु यथौघिकतैजस-कार्मणान्यभिहितानि तथैवात्रापि भावनीयानि ।
बेइंदियाणं भंते ! इत्यादि । अत्र बद्धौदारिकाण्यसङ्ख्येयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च प्रतरासङ्ख्येयभागवर्तिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटीकोटिप्रमाणाऽत्र ग्राह्या । एतदेव विशेषिततरमाह- असंखेज्जाइं सेढिवग्गमूलाई ति, एकस्या नभ:श्रेणेर्य: प्रदेशराशि: स च सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि ६५५३६, अस्य प्रथमं वर्गमूलम् २५६, द्वितीयम् १६, तृतीयम् ४, चतुर्थम् २, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येया: प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org