________________
२६८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४२२) (१) पंचेंदियतिरिक्खजोणियाण वि ओरालियसरीरा एवं चेव भाणियव्वा।
(२) पंचेंदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ जाव विक्खंभसूयी अंगुलपढमवग्गमूलस्स असंखेजइभागो । मुक्केल्लया जहा ओहिया ओरालियाणं । आहारयसरीरा जहा बेइंदियाणं । तेयग-कम्मगसरीरा जहा ओरालिया । ___ इदानीं प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह- बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लएहिमित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतर: सर्वोऽप्यपह्रियते, कियता कालेनेत्याहअसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, केन पुन: क्षेत्रप्रतिभागेन कालप्रतिभागेन च एतावता कालेनायमपह्रियत इत्याह- अगुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्ख्येयभागरूप: प्रतिभाग: अंशस्तेन । इदमुक्तं भवति- यद्येकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैकोऽमुलासङ्ख्येयभाग एकैकेनावलिकाऽसङ्ख्येयभागेन क्रमशोऽपह्रियते तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभि: सर्वोऽपि प्रतरो निष्ठां याति, एवं प्रतरस्यैकैकस्मिन्नगुलासङ्ख्येयभागे एकैकेनावलिकाऽसङ्ख्येयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वं प्रतरं पूरयन्तीत्यपि द्रष्टव्यम्, वस्तुत एकार्थत्वादिति, मुक्तौदारिक-वैक्रिया-ऽऽहारकाणि पृथ्वीकायिकवद्वाच्यानि, तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रिय-चतुरिन्द्रियाणामप्येवमेव वाच्यम् । पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह- पंचिंदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरा इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यः, न पुन: सर्वथा परस्परं सङ्ख्यासाम्यमेतेषाम्, यत उक्तम्- एएसि णं भंते एगिदिय-बेइंदियतेइंदिय-चउरिंदिय-पंचिंदियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ? सव्वथोवा पंचिंदिया, चउरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिंदिया अणंतगुणा (प्रज्ञापना० ३।३) तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यम्, प्रत्येकशरीरिणां जीवसङ्ख्याया: शरीरसङ्ख्यातुल्यत्वादित्यलं प्रसङ्गेन । प्रकृतमुच्यते- तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च श्रेणीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org