________________
२६९
श्रीअनुयोगद्वारसूत्रम् [सू०४२३]
(सू० ४२३) (१) मणूसाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता? गो० ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय संखेजा सिय असंखेजा, जहण्णपदे संखेजा, संखेजाओ कोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाई रासी, उक्कोसपदे असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं कालओ, खेत्तगे अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । मुक्केल्लया जहा ओहिया ओरालियाणं ।। विष्कम्भसूचिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभाग: । शेषभावना असुरकुमारवत् कार्या ।
मणूसाणं भंते ! केवइया इत्यादि । इह मनुष्या द्विविधाः वान्तपित्तादिजन्मान: सम्मूछेजा:, स्त्रीगर्भोत्पन्ना गर्भजाश्च । तत्राद्या: कदाचिन्न भवन्त्येव, जघन्यत: समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां निर्लेपत्वसम्भवात् । यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूर्छजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तम्- जहण्णपए संखेज्ज त्ति । सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह- सङ्ख्येया: कोटय:, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हे? त्ति । इदमुक्तं भवतिअष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं त्रियमलपदम्, षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुविंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः । तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-, चउजमलपदस्स हे? त्ति, चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः । अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य तु वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org